SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] अर्थस्य सामान्यविशेषात्मकत्वम् ५२९ गुण्यादिप्वप्यंतस्तद्वत्कथञ्चिद्भेदाभेदप्रसिद्धभिन्नप्रमाणग्राह्यत्वस्य विरुद्धत्वम् । एकान्ततोऽवयवावयव्यादीनां भिन्नप्राणग्राह्यत्वं चासिद्धम्; 'पटोयम्' इत्याद्युल्लेखनाभिन्न प्रमाणग्राह्यत्वस्यापि सम्भवात् । न ‘पटोयम्' इत्याधुलेखेनावयव्येव प्रतिभालते नावयवास्तत्क-५ थमभिमप्रमाणाह्यत्वन्; इत्यप्यपेशलम् ; तद्भेदप्रसिद्धः। तन्तव एव वातानवितानीभूता अवस्थाविशेषविशिष्टः 'स्टोयम् इत्याद्युल्लेखेन प्रतिभासन्त नान्यस्ततीर्थान्तरं पटः। प्रमाणं हि यथाविधं वस्तुखरूपं गृह्णाति तथाविधमेवाभ्युपगन्तव्यम् , यत्रात्यन्तभेदग्राहकं तत्तत्रात्यन्त मेदो यथा घटपटादौ, यत्र पुनः १० कथञ्चिद्भग्राहकं तत्र कथञ्चिद्भेदो यथा तन्तुपटादाविति । अंतः कालात्ययापदिष्टं चेदं साधनं यथानुष्णोग्निद्रव्यत्वाजलवत् । न च घेटादौ तथाविधभेदेनास्य व्यायुपलम्भात्सर्वत्रात्यन्तभेदकल्पना युक्ता; क्वचित्तार्णत्वादिविशेपाधारेणाग्निना धूमस्य व्याप्त्युपलम्भन सर्वत्राप्यतस्तथाविधविशेषसिद्धिप्रसङ्गात् ।१५ अथ तार्णत्वादिविशेषं परित्यज्य सकलविशेषसाधारणमग्निमात्रं धूमात्प्रसाध्यते । नन्देवमत्यन्त सेदं परित्यज्यावयवावयव्यादिष्वपि भिन्नप्रमाणनात्वा दमात्रं किं न प्रसाध्यो विशेाभावात् ? __ दृष्टान्तश्च साध्यविकलत्वान्न साधनाङ्गम् ; अत्यन्तसेदस्यात्राप्यसिद्धेः। तदसिद्धिश्च सद्रूपतया घटादीनामभेदात्। साधनविकलश्च; २० स्फारिताक्षस्यैकस्मिन्नप्यध्यक्षे घटादीनां प्रतिभाससम्भवात् । न च प्रतिविषयं विज्ञानभेदोभ्युपगन्तव्यः; मेचकज्ञानाभावप्रसङ्गात्। घटादिवस्तुनोप्येकविज्ञानविषयत्वाभावानुषङ्गाचा अत्राप्यूर्वाधोमध्यामागेषु तद्भेदस्य कल्पयितुं शक्यत्वात् । तथा चावयविप्रसिद्धये दत्तो जलाञ्जलिः। प्रेतीतिविरोधोन्यत्रापि न काकैर्मक्षितः। २५ १ भिन्नप्रमाणग्राह्यत्वात् । २ साध्यविपर्ययव्याप्तो विरुद्धः। ३ साधनम्। ४ असिद्धत्वं परिहरति परः। ५ पटः। ६ पर्यायतया । ७ अभ्युपगन्तव्यः । ८ प्रमाणेन सर्वथा भेदस्य बाधनात् । ९ न केवलमसिद्धम् । १० भिन्नप्रमाणग्राह्यत्वादिति । ११ घटपटयोः। १२ सर्वथा । १३ तन्तुपटादौ । १४ यथाग्निमात्रे साधिते सति खादिराग्निस्तथा पार्णाग्निरपि लभ्यते एवं भेदमात्रे साधिते भेदो लभ्यतेऽभेदोपि (-ते कथञ्चिद्भदोऽपि ) लभ्यते इति भावार्थः। १५ परेण त्वया । १६ विशेषपरित्यागस्य । १७ घटपटवदिति । १८ अत्यन्तभेदः साध्यः। १९ युगपत् । २० सेनावनादिज्ञानवत् । २१ सर्वथा । २२ तस्य ज्ञानस्य । २३ घटादिवस्तुनो भेदे च। २४ ज्ञानभेदेनैव सिद्धेः। २५ एकोयं घट इति। २६ अवयवावयव्यादेः सर्वथा भेदे साध्ये। प्र० क० मा० ४५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy