________________
५२८
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
अत्र प्रतिविधीयते। अनेकधर्मात्मकत्वेनार्थस्य ग्राहकप्रमाणाभावोऽसिद्धः; तथाहि-वास्तवानेकधर्मात्मकोर्थः, परस्परविलक्षणानेकार्थक्रियाकारित्वात्, पितृपुत्रपौत्रातृभागिनेयाद्यनेकार्थक्रियाकारिदेवदत्तवत् । न चायमसिद्धो हेतुः; आत्मनो ५मनोज्ञाङ्गनानिरीक्षणस्पर्शनमधुरध्वनिश्रवणताम्बूलादिरसास्वादनकर्पूरादिगन्धाघ्राणमनोज्ञवचनोच्चारणचक्रमणावस्थानहर्षविषादानुवृत्तव्यावृत्तज्ञानाद्यन्योन्यविलक्षणानेकार्थक्रियाकारित्वेन अ. ध्यक्षतोनुभवात्। घटादेश्च खान्यव्यक्तिप्रेदेशाद्यपेक्षयानुवृत्तव्यात. त्तसदसत्प्रत्ययस्थानगम जलधारणादिपरस्परविलक्षणानेकार्थ१०क्रियाकारित्वेन प्रत्यक्षतःप्रतीतेरिति । दृष्टान्तोपि न साध्यसाधनविकल; वास्तवानेकधर्मात्मकत्वाऽन्योन्यविलक्षणानेकार्थक्रियाकारित्वयोस्तत्र सद्भावात् ।
ननु भिन्नप्रमाणग्राह्यत्वेन धर्मधर्मिणोरत्यन्तभेदप्रसिद्धः सिद्धेपि धर्मिणि वास्तवानेकधर्माणां सद्भावे तादात्म्याप्रसिद्धिः, इत्यप्य१५ समीचीनम् ; अनैकान्तिकत्वाद्धेतोः, प्रत्यक्षानुमानाभ्यां हि भिन्नप्रमाणग्राह्यत्वेप्यात्मादिवस्तुनो भेदाभावः, दूरेतरदेशवर्त्तिनामस्पष्टेतरप्रत्ययग्राह्यत्वेपि वा पादपस्याऽभेदः। ननु चात्र प्रत्ययभेदाद्विषयभेदोऽस्त्येवे, प्रथमसमयवर्ति हि विज्ञानमूर्द्धताविषयमुत्तरं च शाखादिविशेषविषयम् । इत्यप्यसाम्प्रतम् । एवंविषय. २० भेदाभ्युपगमे 'यमहमद्राक्षं दूरस्थितः पादपमेतर्हि तमेव
पश्यामि' इत्येकत्वाध्यवसायो न स्यात्, स्पष्टेतरप्रतिभासानां सा. मान्यविशेषविषयत्वेन घटादिप्रतिभासवद्भिन्नविषयत्वात् । अथ पादपापेक्षया पूर्वोत्तरप्रत्ययानामेकविषयत्वं सामान्य विशेषापेक्षया तु विषयभेदः, कथमेवमेकान्ताभ्युपगमो न विशीर्यंत ? गुण
१ वाह्यार्थस्य । २ स्वश्चान्यश्च ती व्यक्तिश्च प्रदेशादयश्च ते स्वान्ययोर्व्यक्तिप्रदेशादयः तेषामपेक्षा तया, ततश्चायमर्थः खव्यक्त्यपेक्षया स्वप्रदेशाद्यपेक्षयान्यव्यक्त्यपेक्षयाऽन्यप्रदेशाद्यपेक्षया यथाक्रममनुवृत्तव्यावृत्तप्रत्ययः सदसत्प्रत्ययलक्षणार्थक्रियाकारित्वादि । ३ आदिना कालभावग्रहणम् । ४ घटस्तिष्ठति। ५ घटो जले गच्छति पत्रमाकाशे गच्छतीत्यादि । ६ सत्प्रतिपक्षत्वं हेतोः सद्भावयति परः। ७ धमैः सह धर्मिणो धर्मिणा वा धर्माणाम् । ८ सर्वथा भेदाभावे । ९ भिन्नप्रमाणग्राह्यत्वादित्यस्य । १० अहं सुख्यहं दुःखीत्यादिस्वसंवेदनेन आत्मास्ति व्याहारादिकार्यदर्शनादित्याद्यनुमानेन च। ११ पुरुषाणाम् । १२ यथा । १३ कुतस्तथा हि । १४ दूरतः । १५ समीपे शाखादिमानति । १६ नरः। १७ तव परस्य । २८ ययोभिन्नप्रमाणग्राह्यत्वं तयोः सर्वथा भेद इति ।