________________
सू० ४.१० अर्थस्य सामान्यविशेषात्मकत्ववादः ५२७ द्रव्यं नित्यानित्यविकल्पाविभेदम् । तत्र परमाणुरूपं नित्यं सदकारणवत्त्वात् । तदारब्धं तु व्यणुकादि कार्यद्रव्यम नित्यम् । आकाशादिकं तु नित्यमेवानुत्पत्तिमत्त्वात् । एपां च द्रव्यत्वाभिसम्वन्धाद्रव्यरूपता
एतच्चतरव्यवच्छेदकमेपां लक्षणम् ; तथाहि-पृथिव्यादीनि ५ मनःपर्यन्तानीतरेभ्यो भियन्ते, 'द्रव्याणि' इति व्यवहर्त्तव्यानि, द्रव्यत्वालिसम्बन्धात् , यानि नैवं न तानि द्रव्यत्वाभिलम्वन्धवन्ति यथा गुणादीनीति । पृथिव्यादीनामप्यवान्तर भेदवतां पृथिवीत्वाद्यभिसम्वन्धो लक्षणम् इतरेभ्यो मेदे व्यवहारे तच्छन्दवाच्यत्वे वा साध्ये केवलव्यतिरेकिरूपं द्रष्टव्यम् । अभेदवतां त्वाकाश-१० कालदिग्द्रव्याणामनादिसिद्धा तच्छब्दवाच्यता द्रष्टव्या। . एवं रूपादयश्चतुर्विंशतिगुणाः । उत्क्षेपणादीनि पञ्च कर्माणि । परापरभेदभिन्नं द्विविधं सामान्यम् अनुगतज्ञानकारणम् । नित्यद्रव्यव्यावृ(व्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिवुद्धिहेतवः। अयुतसिद्धानामाधार्याधारभूतानामिहेदमितिप्रत्ययहेतुर्यः सम्ब-१५ न्धः स समवायः।
अत्र पदार्थषके द्रव्यवहुणा अपि केचिन्नित्या एव केचित्तनित्या एव । कर्माऽनित्यमेव । सामान्यविशेषसमवायास्तु नित्या एवेति ।
१ खकुसुमादिना व्यभिचारपरिहारार्थ सदिति, तेनाव्यापिघटादिना व्यभिचारस्तन्निरासार्थमकारणवत्त्वादिति । २ अवयविरूपम् । ३ उत्पत्तिमत्त्वात् । ४ सत्त्वे सतीति योज्यम् । ५ नवसंख्योपेतपृथिव्यादीनाम् ! ६ प्रतिपत्तव्या। ७ इतरे= गुणादयः। ८ असाधारणस्वरूपम् । ९ अत्रापि साध्याभावे साधनाभावोस्ति । १० द्रव्याणां गुणादिभ्यो भेदादिकं प्रसाध्येदानी नवद्रव्याणां तद्भेदानां च परस्पर भेदादिकं साधयति वैशेषिकः। ११ ननु यद्यपि नवानां पृथिव्यादीनां गुणादिभ्यो भेदस्तथा व्यवहारस्तच्छब्दवाच्यत्वं च समर्थितं तथापि तेषां सद्भेदानां च परस्पर भेदस्तथा व्यवहारस्तच्छब्दवाच्यत्वमिति च साध्येषु किं साधनमित्युक्ते आह । १२ घटपटादिमृष्टजलादिप्रतिपादिशीतवातादि इत्यादयोऽवान्तरभेदाश्च तेष्वेव सम्भवन्ति, आकाशादीनां नित्यनिरंशत्वाभ्यामवान्तरभेदासम्भवात् । १३ अबादिभ्यः। १४ साधनम् । १५ पृथिवी धर्मिणीतरेभ्यो भिद्यते पृथिवीति वा व्यवहर्तव्या पृथिवीत्वाभिसम्बन्धादबादिवत् , एवमवादिष्वपि द्रष्टव्यम् । १६ पृथिव्यादिप्रकारेण । १७ सत्ताख्य। १८ द्रव्यत्वादि । १९ इदं सदिदं सत्, इदं द्रव्यमिदं द्रव्यमित्येवम् । २० अपृथक्सिद्धानाम् । २१ गुणगुण्यादीनाम् । २२ नित्यद्रव्याश्रिताः। २३ यथाकाशादौ परममहत्त्वादि । २४ अनित्यद्रव्याश्रिताः । २५ स्वामिदासादयः।