________________
५२४
प्रमेयकमलमार्तण्डे [४. विषयपरि० तथा हि-यद्यावृत्तिस्वरूपाऽभिन्न स्वभावं तव्यावृत्तिमत् यथा पर्यायाणां स्वरूपम् , व्यावृत्तिमद्रूपाव्यतिरिक्तं च द्रव्यमिति । द्वितीयपक्षे तु पर्यायाणामप्येकत्वानुषङ्गः । तथाहि-यदनुगतस्वरूपाऽव्यतिरिक्तं तदनुगतात्मकमेव यथा द्रव्यस्वरूपम् , अनु५ गतात्मस्वरूपाऽभिन्नस्वभावाश्च सुखादयः पर्यायाः इत्यादि;
तनिरस्तम् ; प्रमाणप्रतिपन्ने वस्तुरूंपे कुचोद्याऽनवकाशात्। न खलु मदोन्मत्तो हस्ती सन्निहितम् व्यवहितं वा परं भारयति, सन्निहितस्य मारणे मेण्ठस्यापि मारणप्रसङ्गः। व्यवहितस्य च मारणेऽतिप्रसङ्गः, इत्यनर्थानल्पकल्पनाभयात् स्वकार्यकंरणादुप१० रमते । चित्रज्ञानादावपि चैतत्सर्व समानम् । प्रतिक्षितं च प्रतिक्षणं क्षणिकत्वं प्रागित्यलमतिप्रसङ्गेन। अथेदानी व्यतिरेकलक्षणं विशेष व्याचिख्यासुरर्थान्तरेत्याहअर्थान्तरगतो विसदृशपरिणामो व्यतिरेकः
गोमहिषादिवत् ॥ १०॥ १५ एकस्मादर्थात्सजातीयो विजातीयो वार्थोऽर्थान्तरम् , तद्तो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् । यथा गोषु खण्डमुण्डादिलक्षणो विसदृशपरिणामः, महिषेषु विशालविसङ्कटत्वलक्षणः, गोमहिषेषु चान्योन्यसलाधारणस्वरूपलक्षण इति ।
तावेवंभकारी सामान्यविशेषावारमा यस्यार्थत्याऽसौ तथोक्तः। स २० प्रमाणस्य विषयः न तु केवलं सामान्यं विशेषो वा, तस्य द्वितीय
परिच्छेदे 'विषयभेदात्प्रमाणभेदः' इति सौगतमतं प्रतिक्षिपता प्रतिक्षिप्तत्वात् । नाप्युभयं स्वतन्त्रम्; तथाभूतस्यास्याप्यप्रतिभासनात् ।
ननु चार्थस्य सामान्यविशेषात्मकत्वमयुक्तम् । तदात्मकत्वे२५ नास्य ग्राहकप्रमाणाभावात् । सामान्यविशेषाकारयोश्चान्योन्यं प्रतिभासभेदेनात्यन्तं भेदात् । प्रयोगः-सामान्याकारविशेषाकारौ
१ व्यावृत्तयः पर्यायाः। २ भेदवत् । ३ तस्मादनेकमिति । ४ अनुगतस्वरूपं= द्रव्यम् । ५ द्रव्यपर्यायात्मके। ६ कुप्रश्न । ७ मदोन्मत्तो हस्ती मारयत्येवेति प्रमाणप्रतिपन्नः। ८ हस्तिपकस्य । ९ मारणात्। १० हस्ती। ११ सर्वात्मनेत्यादि सौगतमते । १२ चित्रशानाकरौ भिन्नौ न भवतः तयोरभेदादित्येवम् । १३ खण्डलक्षणाद्भोः सजातीयो मुण्डलक्षणो गौः, विजातीयो महिषः, खण्डापेक्षया मुण्डो विसदृशाकारो महिषापेक्षया च विसदृशाकार इत्यर्थः । १४ वैशेषिकः। १५ सर्वथा।