SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ४ सू० ४।१०] अर्थस्य सामान्यविशेषात्मकत्ववादः ५२६ परस्परतोऽत्यन्तं भिन्नौ भिन्नप्रमाणग्राह्यत्वाद्धटपटवत् । पेटाः हि भिन्नप्रमाणग्राह्यत्वमत्यन्तभेदे सत्यवोपलब्धम् , तत् सामान्यविशेषाकारयोरुपलभ्यमालं कथं नात्यन्तभेदं प्रसाधयेत् ? अन्यत्राप्यस्य तदप्रसाधकत्वप्रसङ्गात् । न खलु प्रतिभासभेदाद्विरुद्धधर्माध्यासाच्चान्यत् पटादीनामप्यन्योन्यं भेदनिवन्धनमस्ति। ५ स चावयवावयविनोर्गुणगुणिनोः नियातद्वतोः सामान्यविशेषयोश्चास्त्येव । पटप्रतिभासो हि तन्तुप्रतिभालवैलक्षग्येनानुभूयते, तन्तुप्रतिभासश्च पट प्रतिभालवलक्षण्येन। एवं पटप्रतिभासापादिप्रतिभासवैलक्षण्यमप्यवगन्तव्यम्। विरुद्धधर्माध्यासोप्यनुभूयत एव, पटो हि पटत्वजातिस-१० म्वन्धी विलक्षणार्थक्रियासम्पादकोतिशयेन महत्त्वयुक्तः, तन्तवस्तु तन्तुत्वजातिसम्वन्धिनोल्पपरिमाणाश्च, इति कथं न भियन्ते ? तादात्म्यं चैकत्वमुच्यते, तस्मिंश्च सति प्रतिभासभेदो विरुद्धधर्माध्यासश्च न स्यात् , विभिन्न विषयत्वात्ततस्तयोः । यदि च तन्तुभ्यो नार्थान्तरं पटः; तर्हि तन्तवोपि नाशुभ्योर्थान्तरम् , १५ तेपि स्वावयवेभ्यः इत्येवं तावञ्चिन्त्यं यावन्निरंशाः परमाणवः, तेभ्यश्चाभेदे सर्वस्य कार्यस्यानुपलम्भः स्यात्। तस्मादर्थान्तरमेव पटात्तन्तवो रूपादयश्च प्रतिपत्तव्याः। तथा विभिन्नकर्तृकत्वात्तन्तुभ्यो भिन्नः पटो घटादिवत् । विभिन्नशक्तिकत्वाद्वा विषाऽगंदवत् । पूर्वोत्तरकालभावित्वाद्वा२० पितापुत्रवत् । विभिन्नपरिमाणत्वाद्वा वदामलकवत्। . तथा तन्तुपटादीनां तादात्म्ये 'पटः तन्तवः' इति वचनभेदः, 'पटस्य भावः पटत्वम्' इति षष्ठी, तद्धितोत्पत्तिश्च न प्राप्नोतीति । किञ्च, 'तादात्म्यम्' इत्यत्र किं स पट आत्मा येषां तन्तूनां तेषां२५ भावस्तादात्स्यमिति विग्रहः कर्तव्यः, ते वा तन्तवः आत्मा यस्य १ सन्दिग्धानकान्तिकत्वे प्रतिपादिते सत्याह । २ साधनमिदम् । ३ स्वरूपम् । ४ कथम् ? तथा हि । ५ आदिपदेन क्रियादिग्रहः। ६ शीतापनोदादि । ७ अवयवावयव्यादयः। ८ प्रतिभासभेदे विरुद्धधर्माध्यासे च सत्यपि तादात्म्यं भविष्यतीत्युक्ते सत्याह । ९ तन्त्ववयवेभ्यः। १० व्यणुकादिलक्षणस्य । ११ परमाणुद्वयेन व्यणुकमारभ्यते, व्यणुकत्रितयेन त्र्यणुकमारभ्यते, तच्च प्रत्यक्षमेव तत उपरितन नियमाभावः । १२ जैनेन । १३ प्रतिभासभेदविरुद्धधर्माध्यासप्रकारेण । १४ योषित्कुविन्द । १५ अगदः औषधम् । १६ एकवचनवहुवचनत्वेन । १७ भेदाभावे सति । भेदे षष्ठीति वचनात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy