________________
सू० ४।९ अन्वय्यात्मसिद्धिः
२२३ लम्बद्ध्येत, अपरित्यक्तपूर्वरूपो वा? प्रथमपक्षे निरन्वयनाशप्रसङ्गः, अवस्थातुः कस्यचिदभावात् । द्वितीयपक्षे तु पूर्वोत्तरावस्थयोरात्मनोऽविशेपादपरिणामित्वानुषङ्गः । प्रयोगः यत्पूवोत्तरावस्थासु न विशिष्यते न तत्परिणामि यथाकाशम्, न विशिष्यते पूर्वोत्तरावस्थास्वात्मेति; तदपरीक्षिताभिधानम् ५ आलनो भेदेन प्रसिद्धसत्ताकैः सुखादिपायैः स्वस्य सम्वन्धानभ्युपगमात् । आत्मैव हि तत्पर्यायतया परिणरहे नीलाद्याकाঅন্য স্থললু, সহাকিকালেই লিজালা। न खलु ययैव शत्यात्मानं प्रतिपद्यते विज्ञानं तयैवार्थम् , तयोरअदप्रसङ्गात् । अन्यथात्मनो येन रूपेण सुखपरिणामस्तेनैव दुःख-१० परिणामेपि अनयोरभेदो न स्यात् । न च तच्छक्तिभेदे तदात्मनो ज्ञानस्यापि भेदः, अन्यथैकस्य स्वपरग्राहकत्वं न स्यात् । नापि चित्रज्ञानत्य नीलाद्यनेकाकारतया परिणामेपि एकाकारताव्याघातः । तद्वत्सुखाद्यनेकाकारतया परिणामेपि आत्मनो नैकत्वव्याघातो विशेषाभावात् । न चैकत्र युगपत् , अन्यत्रं तु कालभेदेन १५ परिणामाद्विशेषः, प्रतीतेर्नियामकत्वात् । यत्र हि प्रतीतिर्देशकालभिन्ने तदभिन्ने वा वस्तुन्येकत्वं प्रतिपद्यते तत्रैकत्वं प्रतिपत्तव्यम् , यत्र तु नानात्वं प्रतिपद्यते तत्र तु नानात्व मिति ।
ततो यदुक्तम्-सर्वात्मनैवाभेदे मेदस्तद्विपरीतः कथं भवेत् ? न ह्येकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तौ । प्रयोगः-यंत्रा-२० भेदस्तत्र तद्विपरीतो न भेदः यथा तेषामेव पर्यायौंणां ट्रेव्यस्य च यत्प्रतिनियतमसाधारणमात्मस्वरूपं तस्य न स्वभावाद्भेदः, अभेदश्च द्रव्यपर्याययोरिति । किञ्च, पर्याययो द्रव्यस्याभेदः, द्रव्यात्पर्यायाणांवा? प्रथमपक्षे पर्यायवद्रव्यस्याप्यऽनेकत्वानुषङ्गः।
१ पूर्वाकारापरित्यागात् । २ 'आत्मा धर्मी' परिणामी न भवतीति साध्यम् पूर्वोत्तरावस्थास्वविशिष्टत्वात्' इत्युपरिष्टात्संयोज्यम् । ३ भिद्यते । ४ का (पञ्चमी) । ५ जैनैः। ६ कथम् ? तथा हि। ७ ज्ञानस्य शक्तिद्वयं न विद्यते इत्याशङ्कायामाह । ८ स्वस्य स्वरूपम् । ९ एकयैव शक्त्या स्वरूपार्थयोः प्रतिपत्तौ। १० आत्मनि । ११ आत्मनि। १२ ( 'प्रतीतेः' इतिखपुस्तके पाठः)। १३ सुखादिपर्यायैः । १४ परेण । १५ नीलाद्यनेकाकारैः। १६ परेण । १७ सति । १८ द्रव्यपर्याययोभैदः। १९ भेदाभेदौ । २० द्रव्यपर्यायौ धर्मिणौ भिन्नौ न भवतस्तयोरभेदादिति अनुमानं सौगतप्रयुतमुपरितोत्र योज्यम् । २१ पक्षे नीलाद्याकाराणाम् । २२ प्रथमपक्षे आत्मनः, द्वितीयपक्षे चित्रशानस्य । २३ अन्योन्यम् । २४ पक्षे नीलाद्याकारचित्रशानयोः । २५ पक्षे नीलाद्याकारेभ्यः। २६ पक्षे चित्रज्ञानस्य ।