________________
प्रमेयकमलमार्तण्डे ४. विषयपरि०. "तस्मादुभयंहानेने व्यावृत्त्यनुनमात्मकः। पुरुषोभ्युपगन्तव्यः कुण्डलादिषु सँर्पवत् ॥"
[मी० श्लो० आत्मवाद श्लो० २८] इति । तत्मात्तत्प्रत्यभिज्ञानात्सर्वलोकावधारितात् । ५ नैरात्म्यवादवाधः स्यादिति सिद्धं समीहितम् ॥”
[मी० श्लो० आत्मवाद श्लो० १३६] इति च । अथ कथमतःप्रत्यभिज्ञानादात्मसिद्धिरिति चेत्? उच्यते-'प्रमातृविषयं तत्' इत्यत्र तावदावयोरविवाद एव । स च प्रमाता भव
नात्मा भवेत् , ज्ञानं वा? ल तावदुत्तरः पक्षः; 'अहं ज्ञातवानहमेव १० च साम्प्रतं जानामि' इत्येकप्रमापरामर्शन ह्यहंवुद्धरुपजायमा. नाया ज्ञानक्षणो विषयत्वेन कल्प्यमानोतीतो वा कल्प्येत, वर्तमानो वा, उभौ वा, सन्तानो वा प्रकारान्तरासम्भवात् ? तत्राद्यविकल्प 'ज्ञातवान्' इत्ययमेवाकारावसायो युज्यते पूर्व तेन ज्ञातत्वात्,
'सम्प्रति जानामि' इत्येतत्तु न युक्तम्, न ह्यसावतीतो ज्ञानक्षणो १५वर्तमानकाले वेत्ति पूर्वमेवास्य निरुद्धत्वात् । द्वितीयपक्षे तु 'सम्प्रति जानामि' इत्येतद्युक्तं तस्येदानी वेदकत्वात् , 'ज्ञातवान्' इत्याकारणग्रहणं तु न युक्तं प्रागस्यासम्भवात् । अत एव न तृतीयोपि पक्षो युक्तः, न खलु वर्तमानातीतावुभौ ज्ञानक्षणौ
ज्ञान(त)वन्तौ, नापि जानीतः। किं तर्हि ? एको ज्ञातवान् अन्यस्तु २० जानातीति । चतुर्थपक्षोप्ययुक्तः, अतीतवर्चमानज्ञानक्षणव्यतिरेकेणान्यस्य सन्तानस्यासम्भवात् । कल्पितस्य सम्भवेपि न ज्ञातृत्वम् । न ह्यऽसौ ज्ञान(त)वान्पूर्व नाप्यधुना जानाति, कल्पितत्वेनास्याऽवस्तुत्वात् । न चावस्तुनो ज्ञातृत्वं सम्भवति
वस्तुधर्मत्वात्तस्य इति अतोऽन्यस्यै प्रमातृत्वासम्भवादात्मैव २५प्रसाता सिद्धयति । इति सिद्धोऽतः प्रत्यभिज्ञानादात्मेति ।
ननु चात्मासुखादिपर्यायैः सम्बद्ध्यमानः परित्यक्तपूर्वरूपो वा १ सुखादिपर्यायाणां सर्वथात्मनः सकाशाद्भेदाभेदौ, तयोः। २ परिहारेण । ३ सुखादिस्वरूपतया। ४ चिद्रूपतया । ५ भेदाभेदात्मकः । ६ आकारेषु । ७ स्वर्णवदिति पाठान्तरम्। ८ ज्ञानसन्ततिरेवात्मा नान्यः कश्चिदिति हेतो.रात्म्यम् । ९ जैनबौद्धयोः। १० प्रत्यभिज्ञानेन। ११ सौगतेन। १२ अतीतवर्तमानलक्षणौ । १३ निश्चयः। १४ अतीतज्ञानक्षणस्य । १५ अतीतज्ञानक्षणस्य । २६ कथम् ? । १७ विनष्टत्वात्। १८ एकस्य ज्ञातवत्त्वज्ञातृत्वासम्भवादेव । १९ इत्युल्लेखः । २० इत्युल्लेखः । २१ इत्युल्लेखो युक्तः । २२ अतीतज्ञानक्षणादेः। २३ अवशिष्य
माणत्वात्।