SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ सू० ४।९] अन्वय्यात्मसिद्धिः ५२१ थैव व्यवहर्तव्यम् यथा वेद्याद्याकारात्मसंवेदनरूपतया प्रतिभालमानं संवेदनम् , सुखाद्यनेकाकारकात्मतया प्रतिभासमानश्चात्मा' इत्यनुमानप्रसिद्धत्वाच्च। सुखदुःखादिपर्यायाणामन्योन्यमेकान्ततो भेदे च 'प्रागहं सु. ख्यासं सम्प्रति दुःखी वर्ते' इत्यनुसन्धानप्रत्ययो न स्यात् । तथा-५ विधवासनाप्रवोधादनुसन्धानप्रत्ययोत्पत्तिः, इत्यप्यसत्यम् ; अनुसन्धानवासना हि यद्यनुसन्धीमानसुखादिभ्यो मिला; तर्हि सन्तानान्तरसुखादिवत्स्व सन्तानेप्यनुसन्धानप्रत्ययं नोत्पादयेदविशेषात् । तदभिन्ना चेत् तावद्धाभिद्येत । न खलु भिन्नादभिन्नमेंभिन्न नामाऽतिप्रसङ्गात् । तथा तत्प्रवोधात्कथं सुखादिष्कमनु-१० सन्धानज्ञानमुत्पंद्येत ? तेभ्यस्तस्याः कथञ्चिद्भेदे नाममात्रं भिद्येतअहमहमिकया स्वसंवेदनप्रत्यक्षप्रसिद्धस्यात्मनः सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वतो 'वासना' इति नामान्तरकरणात् । क्रमवृत्तिसुखादीनामेकसन्ततिपतितत्वेनानुसन्धाननिबन्धनत्वम् ; इत्यपि तादृगेव; आत्मनः सन्ततिशब्देनाभिधानात् । तेषां१५ कथञ्चिदेकत्वामा नैकपुरुषसुखादिवदेकसन्ततिपतितत्वस्याप्ययोगात्। ___ आत्मनोऽनभ्युपगमे च कृतनाशाकृताभ्यागमदोषानुषङ्गः । कर्तुनिरन्वयनाशे हि कृतस्य कर्मणो नाशः कर्तुः फैलानभिसम्बन्धात् , अकृताभ्यागमश्च अकर्तुरेव फलाभिसम्बधात् । ततस्त-२० दोषपरिहारमिच्छतात्मानुगमोभ्युपगन्तव्यः। न चाप्रमाणकोयम्; तत्सद्भावावेदकयोः खसंवेदनानुमानयोः प्रतिपादनात् । 'अहलेव ज्ञातवानहमेव वेद्मि' इत्यादेरेकप्रमातृविषयप्रत्यभिज्ञानस्य च लद्भावात् । तथा चोक्तं भट्टेन १ आदिना वेदकसंवित्तिग्रहः । २ हर्षविषादादिग्रहः । ३ साधनमसिद्धमित्युक्ते सत्याह । ४ सर्वथा। ५ आत्मनः सकाशात् । ६ प्रत्यभिज्ञान । ७ गम्यमान । ८ सर्वथा। ९ सुखादिस्वरूपेण। १० उभयत्र भिन्नत्वस्य। ११ तर्हि । १२ सुखादयो यावन्तः। १३ एकम् । १४ अन्यथा। १५ घटपटादिभ्योऽभिन्नानां तत्स्वरूपाणां भिन्नत्वप्रसङ्गात् । १६ वासनाया अचेतनत्वे च । १७ अनेकवासना । १८ अनेकसुखानुसन्धानज्ञानमुत्पद्यतेत्यर्थः। १९ कारणबहुत्वे कार्यबहुत्वमिति वचनात् । २० आत्मा वासनेति च । २१ अहं सुख्यहं दुःखीति । २२ स्वधर्मान् । २३ हर्षविषादादीनां च। २४ आत्मद्रव्यापेक्षया । २५ कथम् ? । २६ कर्मणः । २७ पुरुषस्य । २८ कर्मणः। २९ कर्मफलकाले तदभावात् । ३० सौगतेन । ३१ पूर्वम् । ३२ इदानीम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy