SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ ५२० प्रमेयकमलमार्तण्डे [४. विषयपरिक ध्यते; तदा तेनापेक्ष्यमाणेनोपकारिणा भवितव्यम् । 'कथं चोपकरोत्यसन्' इत्यादि सर्वमंत्रापि योजनीयम् । अकार्यकारणभावस्याप्यर्थानामनभ्युपगमे तु कार्यकारणभावो वास्तवः स्यात् । उभयाभावस्तु न युक्तः विरोधात्, कचिन्नीले५तरत्वाभाववत् । ततो यथा कुतश्चित्प्रमाणादकार्यकारणभावो गवाश्वादीनामतद्भावभावित्वंप्रतीतेः परस्परं परमार्थतो व्यवतिष्ठते, तथाग्निधूमादीनां तद्भावभावित्वप्रतीतेः कार्यकारणभोवोपि वाधकाभावात् । तन्न प्रमाणतः प्रतीयमानः सम्वन्धः स्वाभिप्रेततत्त्वन्निह्नवनीयो येन स्थूलादिप्रतीतेन्तत्वात्तत्स्व१० भावतार्थस्य न स्यात् । चित्रज्ञानवद्युगपदेकस्यानेकाकारसम्वन्धित्ववत्क्रमेणापि तत्तस्याविरुद्धम् । इति सिद्धं परापरविवर्त्तव्याप्येकद्रव्यलक्षणमूर्खतासामान्यम् । यथा च द्वेधा सामान्यं तथा विशेषश्च ॥७॥ १५ चकारोऽपिशब्दार्थे । कथं तदैविध्यमित्याह पर्यायव्यतिरेकभेदात् ॥ ८॥ तत्र पर्यायस्वरूपं निरूपयतिएकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्यायोः __ आत्मनि हर्षविषादादिवत् ॥ ९ ॥ २० अत्रोदाहरणमाह आत्मनि हर्षविषादादिवत् ।। ननु हर्षादिविशेषेव्यतिरेकेणोत्मनोऽसत्त्वादयुक्तमिदमुदाहरणमित्यन्यः; सोप्यप्रेक्षापूर्वकारी3 चित्रसंवेदनवदनेकाकारव्यापित्वेनात्मनः स्वसंवेदनप्रत्यक्षप्रसिद्धत्वात् । 'यद्यथा प्रतिभासते तत्त १ सौगतेन मया। २ असम्बन्धेन । ३ अकारणेनाऽकार्येण वा। ४ अकार्यमकारणं वा । ५ असम्बन्धे । ६ न केवलं कार्यकारणभावस्य । ७ परेण । ८ उक्त प्रकारेण सम्बन्धो निराकर्तुं न शक्यते यतः। ९ असम्बन्धः। १० नराश्ववत् । ११ चैतन्यव्याहारादिकार्यवत् । १२ परस्परं परमार्थतो व्यवतिष्ठते । १३ उभयत्र । १४ कार्यकारणाविनाभावः। १५ सौगत । १६ असम्बन्धादिवत् । १७ किंतु स्यादेव। १८ ज्ञानस्य । १९ जीवादिपदार्थस्य । २० ज्ञानसुखवीर्यदर्शनादय आत्मनः सहभावित्वाद्गुणाः स्युः । क्रमभावित्वाच्च पर्यायाश्च भवन्ति-कुतो वस्तुनोऽ. नेकधर्मात्मकत्वात् । २१ भेद । २२ अपरस्य । २३ सौगतः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy