________________
सू० ४।६] सम्बन्धसद्भाववादः
५१९ कमेव पश्यति" इति [ ] वचो विरुध्येत । मध्यक्षणस्वभावत्वा. त्तद्व्यावृत्तेः तदाहिज्ञानेन प्रतिपत्तिश्चेत् ; तर्हि कार्योत्पादनशक्तेः कारणस्वभावत्वात्तग्राहिणैव ज्ञानेन प्रतिपत्तिरिष्यतां विशेषाभौवात् । उक्ता च कार्यप्रतिपत्तिः प्रत्यक्षादिसहायेनात्मनेत्युपरम्यते।
किञ्च, कार्यानिश्चये शतरप्यनिश्चये नीलादिनिश्चयोपि मा भूत् । यदेव हि तस्याः कार्य तदेव नीलादेरपि, अनयोर भेदात् । वक्तृत्वस्य चासर्वज्ञत्वादिना व्याप्त्यसम्भवः सवैज्ञसिद्धिमघट्टके प्रतिपादितः।
न चेन्धनादिप्रभवपावकस्य मण्यादिप्रभवपावकादभेदो येन १० नियतः कार्यकारणभावो न स्यात् । अन्यादृशाकारो हीन्धनप्रभवः पावकोऽन्यादृशाकारश्च मण्यादिप्रभवः । तद्विचारे च प्रतिपत्रा निपुणेन भाव्यम् । यत्नतः परीक्षितं हि कार्य कारणं नातिवर्तते । कथमन्यथा वीतरागेतरव्यवस्था तच्चेष्टीयाः साङ्कल्पलम्भात् ? ___ कथं चैवंवादिनो मृतेतरव्यवस्था स्यात् ? व्यापारव्याहारा-१५ कारविशेषस्य हि क्वचिच्चैतन्यकार्यतयोपलम्मे सत्यस्त्यत्र जीवच्छरीरे चैतन्यं व्यापारादिकार्यविशेपोपलम्भात्, मृतशरीरे तु नास्ति तद्नुपलम्भादिति कार्यविशेषस्योपलम्भानुपलम्माभ्यां कारणविशेषस्य भावाभावप्रसिद्धेस्तद्वयवस्था युज्येत ।
अकार्यकारणभावेपि चैतत्सर्व समानम्-सोपि हि द्विष्ठः२० कथमसहभाविनोः कार्यकारणत्वाभ्यां निषेध्ययोर्वतते ? ने चाद्विष्ठोसौ; सम्बन्धाभावविरोधात् । पूर्वत्र भावे वर्तित्वा परत्र क्रमेणासौ वर्त्तमानोऽन्य निस्पृहत्वेनैकवृत्तिमत्त्वात्कथं लम्वन्धाभावरूपता(तां) प्रतिपद्यते ? अथाकार्यकारणयोरेकमपेक्ष्यान्यत्रासौ क्रमेण वर्त्तत इति सस्पृहत्वेनास्य द्विष्ठत्वात्तदभावरूपते-२५
१ बसः । २ एव। ३ कार्यस्य । ४ मध्यक्षणस्वभावत्वाद्वथावृत्तेस्तद्वाहिशानेन प्रतिपत्तिर्घटते, कार्योत्पादनशक्तः कारणभावत्वात्तद्वाहिशानेन प्रतिपत्तिर्ने त्यत्र । ५ कारणसम्बन्धिन्याः कार्योत्पादनलक्षणायाः। ६ तव सौगतस्य । ७ कुतः। ८ शक्तिनीलाद्योः। ९ निरंशवस्तुवादिमते । १० जनैः। ११ किंतु भेद एव । १२ सर्वज्ञेन । १३ अझ्यादिलक्षणम् । १४ इन्धनमण्यादिकम् । १५ जपतपोध्यानादेः। १६ दृष्टान्तभूते । १७ कथम् । १८ गोमहिषयोः । १९ अकार्यकारणयोः। २० अनयोः सम्बन्धाभावो यतः। २१ अकार्यकारणभावतः सम्बन्धाभावरूपो न भवत्यधिष्ठत्वाद्धटसत्त्ववत्। २२ अभावात् । २३ अकारणे। २४ अकार्ये । २५ यथास्माकं सम्बन्धो न घटते तथा तवापीत्यर्थः। २६ असम्बन्धस्य ।