________________
५१८
प्रमेयकमलमार्तण्डे ४. विषयपरि० ननु नालिकरद्वीपादिवासिनामकरलाभूमस्याग्नेर्वोपलस्मेपि कार्यकारणभावस्यानिश्चयानासौ वास्तवः; तदप्यापेशलम् ; बाह्या. न्तःकारणप्रसवत्वात्तन्निश्चयस्य । क्षयोपशमविशेषो हि तस्यान्तः
कारणम् , तद्भावभावित्वाभ्यासस्तु बाह्यम् , अकार्यकारणभावा५वगमस्य त्वऽतद्भावभावित्वाभ्यासः। तदभावान्न क्वचित्तेषां कार्यकारणभावस्याऽकार्यकारणभावस्य वा निश्चय इति ।
धूमादिज्ञानजननसामग्रीमात्रार्त्तत्कार्यत्वादिनिश्चयानुत्पत्तेन कायत्वादि धूमादेः स्वरूपमिति चेत्, तर्हि क्षणिकत्वादिरपि तत्स्वरूपं मा भूतत एव । क्षणिकत्वाभावेऽवस्तुत्वम् अन्यत्रापि १० समानम् , सर्वथाप्यकार्यकारणस्य वस्तुत्वानुपपत्तेः खरशृङ्गवत् ।
न च कार्यस्यानुत्पन्नस्यैव कार्यत्वं धर्मः; असत्त्वात् । नाप्युत्पनस्यात्यन्तं भिन्नं तत् तद्धर्मत्वात् । तत एव कारणस्यापि कारणत्वं धर्मो नैकान्ततो भिन्नम् । तञ्च ततोऽभिन्नत्वात्तग्राहिप्रत्यक्षे.
णैव प्रतीयते तद्व्यक्तिखरूपवत् । दृश्यते हि पिपासाद्याक्रान्तचेत१५ सामितरार्थव्यवच्छेदेनावालं तदपनोदसमथै जलादौ प्रत्यक्षा
त्प्रवृत्तिः। तच्छक्तिप्रधानतायां तु कार्यदर्शनातन्निश्चीयते तद्व्यतिरेकेणास्यासम्भवात् । न च स्वरूपेणाकार्यकारणयोस्तद्भावः सम्भवति । नाप्युत्तरकालं भिन्नेन तेनानयोः कार्यकारणताऽभिन्ना कर्तुं शक्या; विरोधात् । नापि भिन्ना; तयोः स्वरूपेण कार्यकारणता. २० प्रसङ्गात् । न च स्वरूपेण कार्यकारणयोरर्थान्तरभूततत्सम्बन्ध कल्पने किञ्चित्प्रयोजनं कार्यकारणतायाः स्वतः सिद्धत्वात् ?
ननु कार्याप्रतिपत्तौ कथं कारणस्य कारणताप्रतिपत्तिस्तदपेक्षत्वात्तस्याः ? कथमेवं पूर्वापरभागाप्रतिपत्तौ मध्यभांगस्यातो व्यावृत्तिप्रतिपैत्तिरपेक्षाकृतत्वाविशेषात् ? ततः “पश्यन्नयं क्षणि
१ कारण। २ कार्यस्य । ३ पुनः पुनदर्शनम् । ४ कारणम् । ५ वाह्यान्तःकारणयोः। ६ अग्निधूमयोरुपलम्भपि येषां बाह्यान्तःकारणे स्तस्तेषामेव तयोः कार्यकारणभावपरिच्छित्तिर्नान्येषामिति भावः। ७ नेत्रादि । ८ वह्नि। ९ आदिना कारणत्वादि। १० आदिनाग्न्यादेः। ११ धूमादिज्ञानसामग्रीमात्रात् क्षणिकत्वानिश्चयादेव । १२ धूमादिकं धर्म्यऽवस्तु भवतीति साध्यमकार्यकारणत्वाच्छ शविषाणवत्। १३ धर्मधर्मिणोरत्यन्तभेदाभावात् । १४ सन्दिग्धानेकान्तिकत्वेयं परिहारः । १५ कारणभूते । १६ कारणत्वम् । १७ कार्यस्य । १८ घटपटयोरिव। १९ कारणात्। २० सम्बन्धेन। २१ अभिन्ना चेत्कथं भिन्नेन सम्बन्धन विधीयते ? विधीयते चेत्कथमभिन्नेति विरोधः। २२ अग्न्यादेः । २३ क्षणविशेषणम् । २४ वर्तमानक्षणस्य । २५ पूर्वापरभागाव्यावृत्तिमध्यक्षणस्येति प्रतिपत्तिः कथं घटते । २६ मध्यभागस्यातो व्यावृत्तिप्रतिपत्यभावतः । २७ योगी ।