________________
सू० ४।६] सम्बन्धसद्भाववादः
५१७ कारणभावनिवन्धनमिष्यते । किन्तु यद्भावे नियता यस्योत्पत्ति स्तत्तस्य कार्यम् , इतरच कारणम्। तच्च किञ्चित्संहभावि, यथा घटस्य मृद्रव्यं दण्डादि वा। किञ्चित्तु क्रममावि, यथा प्राक्तनः पर्यायः । तत्प्रतिपत्तिश्च प्रत्यक्षानुपलम्भसहायनात्मना नियते व्यक्तिविशेषे, तर्कसहायेन वाऽनियते प्रसिद्धा । एकमेव च ५ प्रत्यक्ष प्रत्यक्षानुपलम्भशब्दाभिधेयम् । तद्धि कार्यकारणभावाभिमतार्थविषयं प्रत्यक्षम् , तद्विविक्तान्यवस्तुविषयमनुपलम्भशब्दाभिधेयम् । तथाहि-एतावद्भिः प्रकार—मोग्निजन्यो न स्यात्-यदि अग्निसन्निधानात्प्रागपि तत्र देशे स्यात् , अन्यतो वाऽऽगच्छेत् , तदन्यहेतुको वा भवेत् । एतच्च सर्वमनुपलम्भपुरस्सरेण प्रत्य-१० क्षेण प्रत्याख्यातम् ।
एतेन प्रागनुपलब्धस्य रासभस्य कुम्भकारसन्निधानानन्तरमुपलभ्यमानस्य तस्य तत्कार्यता स्यादिति प्रतिव्यूढम् ; यदि हि तस्य तंत्र प्रॉगसत्त्वमन्यदेशादनागमन्याहेतुकत्वं च निश्चेतुं शक्येत वादेव कुम्भकारकार्यता । तत्तु निश्चेतुमशक्यम् । १५
न च भिन्नार्थग्राहि प्रत्यक्षद्वयं द्वितीयाग्रहणे तैदपेक्ष कारणत्वं कार्यत्वं वा ग्रहीतुमसमर्थमित्यभिधातव्यम् ;क्षयोपशमविशेषवंतां धूममात्रोपलम्मेप्यभ्यालवशाइनिजन्यत्वावगमप्रतीतेः, अन्यथा बाष्पादिवलक्षण्येनास्याऽनवधारणात्ततोयनुमाभावे सकलव्यवहारोच्छेदप्रसङ्गः। ततः कारणाभिमतपदार्थग्रहणपरिणामापरि-२० त्यागवतात्मना कार्यस्वरूपप्रतीतिरभ्युपगन्तव्या नीलाद्याकारव्याप्येकज्ञाने तत्स्वरूपवत्।
१ सहभवतीत्येवंशीलम् । २ यद् घटोत्पत्तिकाले भवति। ३ कुशूलादिः । ४ उत्तरपर्यायस्य कारणन् । ५ महानसे। ६ महा-हदे। ७ परिमिते । ८ धूमान्योः । ९ यावान् कश्चित्कार्यलक्षणपदार्थः स कारणे सति भवति, नान्यथेति। १० आत्मना। ११ अनुपलम्भशब्देन किमुच्यते इत्याह । १२ नानुमानादिकम् । १३ अभिधूम । १४ बसः। १५ महा-हदादि। १६ 'अनुपलम्भ' इति । १७ प्रत्यक्षम् । १८ तथा हीत्यादिना प्राक् प्रतिपादितार्थ व्यतिरेकद्वारेण समर्थयते । १९ प्राक् प्रतिपादितः प्रत्यक्षानुपलम्भादिभिः। २० तान्प्रकारानाह। २१ एवमस्तु इत्युक्ते सत्याह । २२ प्रत्यक्षानुपलम्भादिभिः कार्यकारणभावसिद्धिसमर्थनेन । २३ निराकृतम्। २४ कुम्भकारावस्थितप्रदेशे । २५ कुम्भकारसन्निधानात् । २६ कुम्भकारापेक्षया । २७ तर्हि। २८ रासभस्य । २९ अग्निधूम । ३० अग्निधूमयोर्मध्येऽन्यतरस्य । ३१ एकेन। ३२ अगृहीतकार्यकारणान्यतरापेक्षम् । ३३ परेण। ३४ कार्यकारणभावज्ञानाच्छादककर्मणः । ३५ नृणाम् । ३६ धूमस्य । ३७ पूर्वोक्तात्कारणामस्य वन्हिजन्यत्वावगमाभावे । ३८ दूरतः। ३९ धूमोग्नेः कार्यमिति । ४० परेण ।
प्र. क. मा० ४४