________________
५१६
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
'रूपश्लेषो हि' इत्याद्यप्येकान्तवादिनामेव दूषणं नास्माकम् ; कथश्चित्सम्वन्धिनोरेकत्वापत्तिखभावस्य रूपश्लेषलक्षणसम्बन्ध स्याभ्युपगमात् । अशक्यविवेचनत्वं हि सम्बन्धिनो रूपश्लेषः,
असाधारणस्वरूपता च तदऽश्लेषः । स चानयोर्द्वित्वं न विरु५न्ध्यात् तथा प्रतीतेश्चित्राकारकसंवेदनवत् । न चापेक्षिकत्वात्सम्वन्धस्वभावो मिथ्याऽर्थानां सूक्ष्मत्वादिवदित्यभिधातव्यम् ; असम्बन्धखभावस्यापि तथाभावानुषङ्गात् । सोपि ह्यापेक्षिक एव कश्चिदर्थमपेक्ष्य कस्यचित्तद्व्यवस्थित्यन्यथानुपपत्तेः स्थूलतादि
वेत् । 'प्रत्यक्षवुद्धौ प्रतिभासमानः सोनापेक्षिक एव तत्पृष्ठभावि१० विकल्पेनाध्यवसीयमानो यथापेक्षिकस्तथाऽवास्तवोपि' इत्यन्य
त्रापि समानम् । न खलु सम्बन्धोऽध्यक्षेण न प्रतिभासते यतोऽनापेक्षिको न स्यात्।
एतेने 'परापेक्षा हिं' इत्यांद्यपि प्रत्युक्तम् ; असम्बन्धेपि समानत्वात्। __ 'द्वयोरेकाभिसम्बन्धात्' इत्याद्यप्यविज्ञातपराभिप्रायस्य विजृ. म्भितम् ; यतो नास्माभिः सम्वन्धिनोस्तोंपरिणतिव्यतिरेके. णान्यः सम्वन्धोभ्युपगम्यते, येनानवस्था स्यात् ।
तथा च 'तामेव चानुरुन्धानैः' इत्याद्यप्ययुक्तम्। क्रियाकारकादीनां सम्वन्धिनां तत्सम्बन्धस्य च प्रतीत्यर्थं तदभि२०धायकानां प्रयोगप्रसिद्धः। अन्यापोहस्य च प्रागेवापास्तस्वरूपत्वाच्छब्दार्थत्वमनुपपन्नमेव । चित्रज्ञानॆवच्चानेकसम्बन्धितादात्म्येप्येकत्वं सम्बन्धस्याविरुद्धमेव ।
यदप्युक्तम्-'कार्यकारणभावोपि' इत्यादि; तदप्यविचारितरमणीयम्; यतो नास्माभिः सहभावित्वं क्रमभावित्वं वा कार्य
१ अनेकान्तवादिनां जैनानाम्। २ एकलोलीभाव। ३ इदं तोयमिमे सक्तव इति विभागस्य कर्तुमशक्यत्वात् । ४ सक्तुतोययोभिन्नस्वरूपता। ५ पृथक्त्वम् । ६ इदं चित्रज्ञानमिमे चित्राकारा इति । ७ परेण। ८ अर्थानाम् । ९ आपेक्षिकत्वाविशेषात् । १० आपेक्षिकत्वाभावे। ११ निर्विकल्पकबुद्धौ। १२ साधनमसिद्धमुद्भावयति । १३ स्यादेव। १४ भवदुत्त्या सम्बन्धस्य परानपेक्षित्वसमर्थनेन । १५ दूषणम् । १६ सौगतोक्तन्यायस्य । १७ जैन। १८ सौंगतस्य । १९ विश्लिष्टरूपतापरित्यागेन संश्लिष्टरूपतया एकलोलीभावलक्षणपरिणतिः। २० सम्बन्धसिद्धौ । २१ देवदत्त गामभ्याजेत्यादीनाम् । २२ शब्दानाम् । २३ सम्बन्धिनामनेकत्वे सम्बन्धस्याप्यनेकत्वं स्यादित्युक्ते सत्याह । २४ चित्रकशानवत्। २५ तन्तुलक्षणैः पक्षे नीलाकारादिभिः । २६ पटस्य । २७ जैनैः ।