________________
सू० ४।६] सम्बन्धसद्भाववादः
५१५ दन्यो नीलाद्यनेकाकारैः सम्बन्धः, सर्वात्मनैकदेशेन वा तैस्तस्याः लम्वन्धे प्रोक्ताशेषदोषानुषङ्गाविशेषात् ।
स चैवंविधः सम्वन्धोर्थानां क्वचिन्निखिलप्रदेशानामन्योन्यप्रदेशानुप्रवेशतः-यथा सक्तुतोयादीनाम् , क्वचित्तु प्रदेशसंश्लिष्टतामात्रेण-यथाङ्गुल्यादीनाम् । न चान्तर्वहिर्वा सांशवस्तुवादिनः५ सांशत्वानुषङ्गो दोषाय; इष्टत्वात्। न चैवमनवस्था; तद्वतस्तत्प्रदेशानामत्यन्तभेदाभावात् । तद्भेदे हि तेषामपि तद्वता प्रदेशान्तरैः सम्बन्ध इत्यनवस्था स्यात् नान्यथा, अनेकान्तात्मकवस्तुनोऽ. त्यन्तभेदाभेदाभ्यां जात्यन्तरत्वाच्चित्रसंवेदनवदेव।
नन्वेवं परमाणूनामप्यंशवत्त्वप्रसङ्गः स्यात् । इत्यप्यनुत्तरम् ;१० यतोऽत्रांशशब्दः स्वभावार्थः, अवयवार्थो वा स्यात् ? यदि स्वभावार्थः; न कश्चिद्दोषस्तेषां विभिन्नदिग्विभागव्यवस्थितानेकाणुभिः सम्वन्धान्यथानुपपत्त्या तावद्धा स्वभावभेदोपपत्तेः। अवयवार्थस्तु तत्रासौ नोपपद्यते; तेषामभेद्यत्वेनावयवासम्भवात् । न चैवं तेषामविभागित्वं विरुध्यते, यतोऽविभागित्वं मेदयितुमशक्यत्वं १५ न पुनर्निःस्वभावत्वम्। ___ यत्तूक्तम्-'निष्पन्नयोरनिप्पन्नयोर्वा पारतब्यलक्षणः सम्वन्धः स्यात्' इत्यादिः तदप्यसारम् ; कथञ्चिनिष्पन्नयोस्तभ्युपगमात् । पैटो हि तन्तुद्रव्यरूपतया निष्पन्न एव अन्वयिनो द्रव्यस्य पटपरिणामोत्पत्तेः प्रागपि सत्त्वात् , स्वरूपेण त्वनिष्पन्नः, तन्तुद्रव्यमपि २० खरूपेण निष्पन्नं पटपरिणामरूपतयाऽनिष्पन्नम् । तथाङ्गुल्यादिद्रव्यं स्वरूपेण निष्पन्नम् संयोगपरिणामात्मकत्वेनानिष्पन्नमिति ।
किञ्च, पारतन्यस्याऽभावाद्भावानां सम्वन्धाभावे तेन व्याप्तः क्वचिसम्वन्धः सिद्धः, न वा ? प्रसिद्धश्चेत् ; कथं सर्वत्र सर्वदा सम्वन्धाभावः विरोधात् ? नो चेत् । कथमव्यापकाभावाव्याप्य-२५ स्याभावसिद्धिरतिप्रसङ्गीत् ?
१ भिन्नः। २ सौगतेन। ३ पिण्डोणुमात्रः स्यादित्यादि । ४ सांशत्वादि । ५ इति प्रतिबन्धविधानम् । ६ सम्बन्धिनि पदार्थे । ७ भवति । ८ सम्बन्धमात्रेण । ९ जैनस्य । १० पदार्थात् । ११ सर्वथा। १२ कथञ्चिद्भेदे। १३ अन्तो धर्मः, कथञ्चिद्भेदाभेदरूपस्य । १४ सर्वथानेकत्वैकत्वाभ्याम् । १५ सांशवस्तुप्रकारेण । १६ तर्हि । १७ स्वभावभेदाऽभावे । १८ स्वभावभेदसम्भवे । १९ कथम् । २० तन्त्वादेः । २१ पटरूपेण । २२ पटः। २३ भावानां सम्बधो नास्ति पारच्याभावात् । २४ दृष्टान्ते । २५ शातः । २६ शातत्वस्य । २७ अथ न प्रसिद्धस्तर्हि । २८ असाध्य । २९ असाधनस्य । ३० अन्यथा। ३१ घटाभावे पटाभावप्रसङ्गात् ।