________________
५१२
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
कत्वविरोधात् । न हि परिमलस्मरणसव्यपेक्षं लोचनं 'सुरभि चन्दनम्' इति प्रत्ययमुत्पादयति । तत्सव्यपेक्षलोचनव्यापारानन्तरमेते कार्यकारणभूता इत्यवभासनात्तद्भावः सविकल्पकप्रत्यक्षप्रसिद्धः, इत्यप्यसमीचीनम् गन्धस्यापि लोचनज्ञान विषय५त्वप्रसङ्गात्, गन्धस्मरणसहकारिलोचनव्यापारानन्तरं 'सुरभि चन्दनम्' इति प्रत्ययप्रतीतेः। तन्न प्रत्यक्षेणासौ प्रतीयते।
नापि प्रत्यक्षानुपलम्भाभ्याम् ; प्रत्यक्षस्येवानुपलम्भस्यापि प्रतिषेध्यविविक्तवस्तुमात्रविषयत्वेनात्राऽसामर्थ्यात् । अथानिसद्भाव एव धूमस्य भावस्तभावे चाभावः कार्यकारणभावः, स चैताभ्यां १० प्रतीयते इच्युच्यते; तर्हि वक्तृत्वस्यासर्वज्ञत्वादिना व्याप्तिः स्यात् । तद्धि रागादिमत्त्वाऽसर्वज्ञत्वसद्भावे स्वात्मन्येव दृष्टम् , तदभावे चोपलशकलादौ न दृष्टम् । तथा च सर्वज्ञवीतरागाय दत्तो जलांजलिः।
वक्तृत्वस्य बक्तुकामताहेतुकत्वान्नायं दोषः; रागादिसद्भावेपि १५वक्तुकामताभावे तस्यासत्त्वात् । नन्वेवं व्यभिचारे विवक्षाप्यस्य निमित्तं न स्यात्, अन्य विवक्षायामप्यन्यशब्दोपलम्भात्, अन्यथा गोस्खलनादेरभावप्रसङ्गात् । अथार्थविवक्षाव्यभिचारेपि शब्द. विवक्षायामप्यव्यभिचारः, न; स्वप्नावस्थायामन्यत्र गतचित्तस्य वा
शब्दविवक्षाभावेपि वक्तृत्वसंवेदनात् । न च व्यवहिता सा २० तन्निमित्तमिति वक्तव्यम् । प्रतिनियतकार्यकारणभावाभावप्रसङ्गात्, सर्वस्य तत्प्राप्तः। अथ 'असर्वज्ञत्वाद्यभावे सर्वत्र वक्तृत्वं न सम्भवति' इत्यत्र प्रमाणाभावान्न तस्य तेन कार्यकारणभावलक्षणः प्रतिबन्धः सिद्धयति; तेंदग्निधूमादावपि समानम् ।
२ कर्तृपदम् । २ कर्मपदम् । ३ परिमलस्मरणसव्यपेक्षत्वेपि लोचने सति चन्दनं सुरभीति ज्ञानं घ्राणेन्द्रियादेव जायत इत्यर्थः । ४ अग्निधूमादयः। ५ तदपि कुत इत्याह। ६ अग्निधूमादि । ७ महाहदादि । ८ असर्वशत्वादिसद्भावे वक्तृत्वस्य सद्भावस्तदभावे चाभाव इति । ९ सर्वज्ञो वीतरागश्च नास्तीति भावः। १० सर्वशास्तित्ववादिना जैनादिना। ११ सर्वशास्तित्वं सूचयन्नाह । १२ साधनस्य । १३ न तु रागादिहेतुकत्वात् । १४ असर्वशत्वलक्षणः। १५ आदिना द्वेषादि । १६ उक्तप्रकारेण । १७ वक्तृत्वसाधनस्य । १८ अग्निदत्त। १९ जिनदत्तादि। २० नाम। २१ वत्कृत्वस्य । २२ कार्यान्तरे । २३ शब्दविवक्षा यदासीत्तदा वक्तृत्वस्य निमित्तं स्यात्कार्यान्तरेणाव्यवहिता। अतोऽव्यवहिता या शब्दविवक्षा पश्चात्तन्निमित्तं भवतीत्युक्ते आह । २४ व्यवहितस्य कार्यस्य । २५ तस्य व्यवहितकारणत्वस्य । २६ आदिना रागादिमत्त्वादि । २७ नृषु । २८ अविनाभावः। २९ यतो युक्तिमन्तरेण बौद्धेनोक्रमिति भावः ।