SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ सू० ४।६] सम्बन्धसद्भाववादः ५१३ अथ 'अग्न्यभावे धूमस्य भावे तद्धेतुकताविरहात्सकृदप्यहेतोरग्नेस्तस्य भावो न स्यात् , दृश्यते च महानसादाग्नितः, ततो नानग्नेधूमसद्भावः' इति प्रतिवेन्धसिद्धिरित्यभिधीयते; तदप्यभिधानमात्रम्; यथैव हीन्धनादेरेकदा समुद्भूतोप्यग्निः अन्यदारणि निर्मथनात् मण्यादेर्वा भवन्नुपलभ्यते, धूमो वाग्नितो५ जायमानोपि गोपालघटिकादौ पावकोद्भूतधूमादप्युपजायते, तथा 'अग्न्यभावेपि कदाचिद्भुमो भविष्यति' इति कुतःप्रतिवन्धसिद्धिः? अथ 'यादृशोग्निरिन्धनादिसामग्रीतो जायमानो दृष्टो न तादृशोऽ. रणितो मण्यादेर्वा । धूमोपि यादृशोनितो न तादृशो गोपालघटिकादौ वह्निप्रभवधूमात्, अन्यादृशात्तादृशंभावेतिप्रसङ्गात् १० इति नाग्निजन्यधूमस्य तत्सदृशस्य चानने वः । भावे वा ताहशधूमजनकस्याग्निस्वभावतैव इति न व्यभिचारः। तदुक्तम् "अग्निखभावः शक्रस्य मूर्धा यद्यग्निरेव सः। अथानग्निस्वभावोसौ धूमस्तत्र कथं भवेत् ॥" [प्रमाणवा० ३१३५] इत्यादि। १५ तदेतद्वक्तृत्वेपि समानम्-'तद्धि संवैज्ञे वीतरागे वा यदि स्यात्, असर्वज्ञाद्रागादिमतो वा कदाचिदपि न स्यादैहेतोः सकृदयसम्भवात् , भवति च तत्ततः, अतो न सर्वज्ञे तस्य तत्सदृशस्य वा सम्भवः' इति प्रतिवन्धसिद्धिः। किञ्च, कार्यकारणभावः सकलदेशकालावस्थिताखिलाग्निधूम-२० व्यक्तिकोडीकरणेनावगतोऽनुमाननिमित्तम् , नान्यथा । न च निर्विकल्पकसविकल्पकप्रत्यक्षस्येयति वस्तुनि व्यापारः, प्रत्यक्षानुपलम्भयो । किञ्च, कार्योत्पादनशक्तिविशिष्टत्वं कारणत्वम् । न चासौ शक्तिः प्रत्यक्षावसेया किन्तु कार्यदर्शनगम्या, "शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः” [मी० श्लो० शून्यवाद श्लो०२५४] इत्यभिधानात् । १ धूमोग्नेः कार्य न भवतीति भावः। २ तस्य भावः । ३ अनेन प्रकारेण । ४ कार्यकारणयोरविनाभावसिद्धिः । ५ जैनादिना भवता । ६ सूर्यकान्तादेः । ७ धूमाग्निलक्षणकार्यकारणयोः। ८ मतम् । ९ न दृष्ट इति संबन्धः। १० वहिप्रभवधूम । ११ जलादग्निसद्भावप्रसङ्गात् । १२ अर्थस्य । १३ धूमाग्मिलक्षणकार्यकारणयोः । १४ तर्हि । १५ कुतः । १६ वक्तृत्वस्य । १७ वक्तृत्वस्यासर्वशत्वादिना। १८ आवृत्तत्वेन एकत्वेन च ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy