________________
सू० ४।६] सम्बन्धसद्भाववादः
५११ कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता ॥ २२॥"
[सम्वन्धपरी०] इति । अस्तु वा कार्यकारणभावलक्षणः सम्बन्धः, तथाप्यस्य प्रतिपन्नस्य, अप्रतिपन्नस्य वा सत्त्वं सिद्धयेत् ? न तावदप्रतिपन्नस्य; अतिप्रसङ्गात् । प्रतिपन्नस्य चेत् कुतोस्य प्रतिपत्तिः-प्रत्यक्षेण, प्रत्यक्षा-५ नुपलम्माभ्यां वा, अनुमानेन वा प्रकारान्तराऽसम्भवात् ? प्रत्यक्षेण चेत् ; अग्निस्वरूपग्राहिणा,धूमस्वरूपग्राहिणा, उभयस्वरूपग्राहिणा वा? न तावदन्तिस्वरूपग्राहिणा; तद्धि तत्सद्भावमात्रमेव प्रतिपद्यते न धूमस्वरूपम् , तदप्रतिपत्तौ च न तदपेक्षयाग्नेः कारणत्वावगमः। न हि प्रतियोगिवरूपाप्रतिपत्तौ तं प्रति कस्यचित्कारण-१० त्वमन्यद्वा धर्मान्तरं प्रत्येतुं शक्यमतिप्रसङ्गात् । नापि धूमस्वरूपग्राहिणा प्रत्यक्षेण कार्यकारणभावावगमः; अत एव, उभयस्वरूपग्रहणे खलु तनिष्ठसम्बन्धावगमो युक्तो नान्यथा । नाप्युभयखरूपग्राहिणा; तत्रापि हि तयोः स्वरूपमात्रमेव प्रतिभासते न त्वग्नेधूमं प्रति कारणत्वं तस्यैव तं प्रति कार्यत्वम्। न हि स्वस्वरूपनिष्ठ-१५ पदार्थद्वयस्यैकज्ञानप्रतिभासमात्रेण कार्यकारणभावप्रतिभासः, घटपटादेरपि तत्प्रसङ्गात् । यत्प्रतिभासानन्तरमेकत्र ज्ञाने यस्य प्रतिभासस्तयोस्तदवगमः, इत्यपि ताण; घटप्रतिभासानन्तरं पटस्यापि प्रतिभासनात् । न च 'क्रमभाविपदार्थद्वयप्रतिभाससमन्वय्येकं ज्ञानम्' इति वक्तुं शक्यम्; सर्वत्रै प्रतिभासभेदस्य २० भेदनिबन्धनत्वात्।
अथाग्निधूमस्वरूपद्वयग्राहि ज्ञानद्वयानन्तरभाविस्मरणसहकारीन्द्रियजनितविकल्पज्ञाने तद्यस्य पूर्वापरकालभाविनः प्रतिभासाकार्यकारणभावनिश्चयो भविष्यतीत्युच्यते; तदप्युक्तिमात्रम्, चक्षुरादीनां तज्ज्ञानजननासामर्थ्य स्मरणसव्यपेक्षाणामपि जैन-२५
१ गगनाब्जादेरपि सत्त्वप्रसङ्गोऽप्रतिपन्नत्वाविशेषात् । २ अन्वयव्यतिरेकशानाभ्याम् । ३ उक्तप्रकारेभ्यः प्रमाणान्तरस्य परेणानभ्युपगमात् । ४ अयमग्निधूमस्य कारणमिति । ५ प्रतियोगी धूमः । ६ धूमम् । ७अग्न्यादेवस्तुनः । ८ सादृश्यादिकम् । ९ स्वकुसुमादिकं प्रत्यपि कस्यचित्कारणत्वप्रसङ्गात् । १० अग्निधूमयोः । ११ न त्वयमग्निधूमस्य कारणं धूमोऽग्नेः कार्यमिति प्रतिभासः। १२ एव । १३ युक्तः। १४ तस्य कार्यकारणभावस्य । १५ एकज्ञानप्रतिभासमानत्वस्याविशेपात् । १६ अर्थस्य । १७ कुतः । १८ एकं ज्ञानं परिहरति परः पदार्थद्वयप्रतिमासे । १९ अनुयायि । २० शाने ज्ञेये च। २१ घटपटयोरिव । २२ तौ अग्निधूमाविति मीमांसकाभ्युपगते प्रत्यभिशाप्रत्यक्षे। २३ सम्बन्धवादिना। २४ अग्निधूमद्वयकार्यकारणभावज्ञानोत्पादनासामर्थे । २५ शानस्य ।