SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ सू० ४।६] सम्बन्धसद्भाववादः ५०५ धात् । तयोरक्ये वा सुतरां सम्वन्धाभावः, सम्वन्धिनोरमावे सम्बन्धायोगात् द्विष्ठत्वात्तस्य । अथ नैरन्तर्य तयो रूपश्लेषः, न; अस्यान्तरालाभावरूपत्वेनाऽतात्त्विकत्वात् सम्वन्धरूपत्वायोगः । निरन्तरतायाश्च सम्वन्धरूपत्वे सान्तरतापि कथं सम्बन्धो न स्यात् ? किञ्च, असौ रूपलेपः सर्वात्मना, एकदेशेन वा स्यात् ? सर्वात्मना रूपश्लेवे अणूनां पिण्डः अणुमात्रः स्यात् । एकदेशेन तच्छेषे किमेकदेशास्तस्यात्मभूताः, परभूताः वा? आत्मभूताश्चेत्, न एकदेशेन रूपश्लेषस्तभावात् । परभूताश्चेत् ; तैरप्यणूनां सर्वात्मनैकदेशेन वा रूपश्लेषे स एव पर्यनुयोगोनवस्था १० च स्यात् । तदुक्तम् "रूपश्लेषो हि सम्वन्धो द्वित्वे स च कथं भवेत्। तस्मात्प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः॥२॥" [सम्बन्धपरी.] किञ्च, परोपेक्षैव सम्वन्धः, तस्य द्विष्ठत्वात् । तं चापेक्षते १५ भावः स्वयं सन् , असन्वा ? न तावदसन् ; अपेक्षाधर्माश्रयत्वविरोघात् खरशृङ्गवत् । नापि सन् ; सर्वनिराशंसत्वात् , अन्यथा सत्त्वविरोधात् । तन्न परापेक्षा नाम यद्रूपः सम्वन्धः सिद्ध्येत् । उक्तश्च "परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥ ३॥" [सम्वन्धपरी०] किञ्च, असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः, अभिन्नो वा? यद्यभिन्नः; तदा सम्बन्धिनावेव न सम्वन्धः कश्चित्, स एव वा न ताविति । भिन्नश्चेत्, सम्वन्धिनौ केवलौ कथं सम्वधौ धौ )२५ स्याताम् ? भवतु वा सम्बन्धोर्थान्तरम् ; तथापि तेनैकेन सम्वन्धेन सह द्वयोः सम्वन्धिनोः कः सम्वन्धः? यथा सम्वन्धिनोयथोक्तदोषान्न कश्चित्सम्बन्धस्तथात्रापि । तेनानयोः सम्बन्धा १ इति चेदित्युपरितः । २ अन्तरालाभावो नैरन्तर्यमिति । ३ तुच्छभावरूपत्वादभावस्य । ४ निरन्तरतावत्पदार्थद्वयापेक्षत्वाविशेषात् । ५ अंशाः। ६ निरंशत्वादणोः। ७ सम्बन्धिनोः। ८ प्रकृत्या स्वभावेन। ९ अणूनाम् । . १० सम्बन्धलक्षणः । ११ सर्वेषु निराकांक्षत्वात् । १२ परमपेक्षते चेत् । १३ परम्। १४ सम्बन्धरहितो। १५ सम्बन्धिभ्याम् । प्र० क० मा० ४३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy