SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ५०४ प्रमेयकमलमार्तण्डे [४. विषयपरि० स्यात् । न चार्थक्रियामन्तरेण हेतुः स्वरूपेण कदाचिदप्युपलब्धः परैः स्वरूपसत्त्वप्रसङ्गात् । अर्थक्रियायाश्चापरार्थक्रिया यदि सत्वव्यवस्थापिका; तदान वस्था। न चार्थक्रियाऽनधिगतसत्त्वस्वरूपापि हेतुसत्त्वव्यवस्था५पिका, अश्वविषाणादेरपि तत्सत्त्वव्यवस्थापकत्वानुषङ्गात् । न व हेतुजन्यत्वादर्थक्रिया सती नार्थक्रियान्तरोदयात् , इत्यभिधातव्यम्। इतरेतराश्रयानुषङ्गात्-हेतुसत्त्वाध्यऽर्थक्रिया सती, तत्सत्त्वाच्च हेतोः सत्त्वमिति । अस्तु वार्थक्रियालक्षणं सत्त्वम् । तथाप्यतोर्थानां क्षणस्थायिता १०क्षणिकत्वं साध्येत, क्षणादूर्वमभावो वा? प्रथमपक्षे सिद्धसाध्यता, नित्यस्याप्यर्थस्य क्षणावस्थित्यभ्युपगमात् । कथमन्यथास्य सदावस्थितिः क्षणावस्थिति निवन्धनत्वात् क्षणान्तराद्यव. स्थितेः ? अथ क्षणादूर्वमभावः साध्यते; तन्न; अभावेन सहास्य प्रतिवन्धासिद्धेः । न चाप्रतिवन्धविषयोऽश्वविषाणादिवद. १५ नुमेयः । तन्न सत्त्वादप्यर्थानां क्षणिकत्वावगतिः। नापि कृतकत्वात्; उक्तप्रकारेण क्षणिके कार्यकारणभाव. प्रतिषेधतः कृतकस्याऽसिद्धस्वरूपत्वेन तदवगतिं प्रत्यनङ्गत्वात् । ततः प्रतीत्यनुरोधेन स्थिरः स्थूलः साधारणस्वभावश्च भावो. भ्युपगन्तव्यः। २० ननु चाणूंनामयःशलाकाकल्पत्वेनान्योन्यं सम्बन्धाभावतः स्थूलादिप्रतीतेन्तत्वात्कथं तद्वशात्तत्स्वभावो भावः स्यात् ? तथाहि-सम्बन्धोर्थानां पारतन्यलक्षणो वा स्यात् , रूपश्लेषलक्षणो वा स्यात् ? प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः स्यात्, अनिष्पन्नयोर्वा ? न तावदनिष्पन्नयोः स्वरूपस्यैवाऽसत्त्वात् २५शशाश्व विषाणवत् । निष्पन्नयोश्च पारतच्याभावादसम्बन्ध एव । उक्तश्च"पारतन्त्र्यं हि सम्बन्धः सिंद्ध का परतन्त्रता। तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः॥१॥" [सम्बन्धपरी०] ३० नापि रूपश्लेषलक्षणोसौ, सम्बन्धिनोत्वेि रूपश्लेषविरो १ अर्थक्रियाकारणम् । २ सौगतैः। ३ अनुमानत्रयेण क्षणिकत्वं पदार्थानां न सिद्ध्यति यतः। ४ रूपरसगन्धस्पर्शपरमाणूनां सजातीयविजातीयव्यावृत्तानां परस्परमसम्बद्धानाम् । ५ सम्बन्धिनि । ६ सह्यविन्ध्ययोरिव । ७ अन्योन्यस्वभावानुप्रवेशलक्षणः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy