________________
सू० ४।६]. क्षणभङ्गवादः
५०३ प्रदीपादिक्षणाद् वर्तिकादाहतैलशोपादिविचित्रकार्याणि शक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते, अन्यथा रूपादेरपि नानात्वं न स्यात् ।
ननु च शक्तिमतोऽर्थान्तरानान्तरपक्षयोः शक्तीनामघटनात्तासां परमार्थसत्त्वाभावः; तर्हि रूपादीनामपि प्रतीतिसि-५ द्धद्रव्यादर्थान्तरानान्तरविकल्पयोरलम्भवात्परमार्थसत्त्वाभावः स्यात् । प्रत्यक्षवुद्धौ प्रतिभासमानत्वाद्रूपादयः परमार्थसन्तो न धुनस्तच्छक्तयस्तासामनुमानवुद्धौ प्रतिभासमानत्वात् । इत्यप्ययुक्तम् ; क्षणक्षयवर्गप्रापणशक्त्यादीनामपरमार्थसत्त्वप्रसङ्गात् । ततो यथा क्षणिकस्य युगपदनेककार्यकारित्वेप्येकत्वाविरोधः,१० तथाऽक्षणिकस्य क्रमशोनेककार्यकारित्वेपीत्यनवद्यम् ।
यच्चार्थक्रियालक्षणं सत्वमित्युक्तम् । तत्र लक्षणशब्दः कारपार्थः, स्वरूपार्थः, शापकार्थो वा स्यात् ? प्रथमपक्षे किमर्थक्रिया लक्षणं कारणं सत्त्वस्य, तद्वार्थक्रियायाः? तंत्रार्थक्रियातः सत्त्वस्योत्पत्तौ प्राक् पदार्थानां सत्त्वमन्तरेणाप्यस्याः प्रादुर्भावान्नि-१५ हतुकत्वं निराधारकत्वं वानुषज्येत । अथ संत्त्वादर्थक्रियोत्पद्यते; तदार्थ क्रियातःप्रागपि सत्त्वसिद्धर्भावानां स्वरूपसत्त्वमायातम् ।
अथ स्वरूपार्थोसो; तत्रापि तद्धेतोरसत्यप्रसङ्गः, न बर्थक्रियाकाले तद्धेतुर्विद्यते । न चान्यकालस्यास्यान्यकाला सा खेरूपमतिप्रसङ्गात् ।
२० नापि ज्ञापकार्थोसौ; अर्थक्रियाकालेर्थस्यासत्त्वादेव । असतश्वास्याऽतः कथं सत्ताज्ञप्तिरतिप्रसङ्गात् ? न चार्थक्रियोदयाप्राक कारणमासीदिति व्यवस्थापयितुं शक्यम् । यतो यदि स्वरूपेण पूर्व हेतुरवगतो भवेत्तदनन्तरं चार्थक्रिया, तदार्थक्रिया प्रतिपन्नसम्वन्धोपलभ्यमाना प्राग्धेतुसत्तां व्यवस्थापयतीति २५
१ आदिना स्वपरप्रकाशनादिग्रहणम् । २ अर्थात्सकाशात् । ३ भिन्नाश्चेत्तस्येति सम्बन्धाभावः । सम्बन्धसियर्थमुपकारकल्पनेऽनवस्था । अभिन्नाश्चेच्छक्तय एव शक्तिमन्त एव वा स्युः। ४ सस्य प्रदीपस्य । ५ साधनं विचार्यते। ६ लक्ष्यते जन्यते कार्यमनेनेति लक्षणं कारणमित्यर्थः-अनेकार्थत्वाद्धातूनाम् । ७ सत्वस्य । ८ सत्त्वस्य । ९ द्वयोः पक्षयोर्मध्ये । १० कारणभूतात् । ११ सर्वथा क्षणिकत्वात् । १२ न हि स्वरूपिखरूपयोः कालभेदो यतः। १३ गगनकुसुमादेरपि शापकत्वप्रसङ्गात् । १४ अर्थक्रिया लानपानादिः । १५ जलादिलक्षणः अर्थक्रियायाः । १६ कारणेन सह ।