________________
५०६
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
न्तराभ्युपगमे चानवास्था स्यात्तत्रापि सस्वन्धान्तरानुषकात। तन्न सम्बन्धिनोः सम्वन्धबुद्धिवास्तवी तद्वयतिरेकेणान्यस्य सम्बन्धस्यासम्भवात् । तदुक्तम्
"द्वयोरेकाभिसम्बन्धात्सम्बन्धो यदि तद्वयोः। ५ कैः सम्वन्धोनवस्था च न सम्बन्धमतिस्तथा ॥४॥
ततःतौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः। इत्यमिश्राः स्वयं भावास्तान् मिश्रयति कल्पना ॥५॥"
[सम्बन्धपरी०] २० तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्वन्धः सर्वे ते स्वात्मनि स्वखरूपे स्थिताः। तेनामिश्रा व्यावृत्तस्वरूपाः स्वयं भावास्तथापि तान्मिश्रयति योजयति कल्पना । अत एंव तद्वास्तवसम्वन्धाभावेपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां
भेदोऽन्यापोहस्तस्य प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः १५प्रयोज्यन्ते-'देवदत्त गामभ्याज शुक्लां दण्डेन' इत्यादयः । न खलु कारकाणां क्रियया सम्बन्धोस्ति; क्षणिकत्वेन क्रियाकाले कारकाणामसम्मवात् । उक्तञ्च
"तामेव चानुरुन्धानैः क्रियाकारकवाचिनः। भावभेदप्रतीत्यर्थ संयोज्यन्तेभिधायकाः॥६॥"
[सम्बन्धपरी०] कार्यकारणभावस्तर्हि सम्बन्धो भविष्यति; इत्यप्यसमीचीनम् । कार्यकारणयोरसहभावतस्तस्यापि द्विष्ठस्यासम्भवात् । न खलु कारणकाले कार्य तत्काले वा कारणमस्ति, तुल्यकालं कार्यकारणभावानुपपत्तेः सव्येतरगोविषाणवत् । तन्न सम्बन्धिनौ २५ सहभाविनौ विद्यते येनानयोर्वर्तमानोसौ सम्वन्धः स्यात् । अद्विष्टे च भाँवे सम्बन्धतानुपपन्नैव।
कार्य कारणे वा क्रमेणासौ सम्बन्धो वर्तते; इत्यप्यसाम्प्रतम् ; यतः क्रमेणापि भावः सम्बन्धाख्य एकत्र कारणे कार्ये
१ स च सम्बन्धिनौ च। २ सम्बन्धसम्बन्धिनोः। ३ अन्यथेति शेषः । ४ सम्बन्धः । ५ वासनारूपा की। ६ अवास्तवी । ७ कल्पनैव मिश्रयति यतः । ८ स्थिरस्थूलसाधारणाकाररूपः । ९ अगोव्यावृत्तिौंः , अघटव्यावृत्तिर्घट इत्यादि । १० कल्पनामवास्तवीं बुद्धिम् । ११ सामान्यसम्बन्धं संदूष्य सम्बन्धविशेषं दूषयनाह । १२ क्षणिकत्वात् । १३ कार्यकारणलक्षणौ। १४ कार्यकारणलक्षणे ।