________________
सू० ४।६] . क्षणभङ्गवादः __ अथोच्यते-'यो यद्भावं प्रत्यन्यानपेक्षः स तत्स्वभाव नियतः यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने, विनाशं प्रत्यन्यानपेक्षाश्च भावाः' इति; तदप्युक्तिमात्रम्; हेतोरसिद्धः । न खलु मुद्गराधनपेक्षा घटादयो भावाः प्रमाणतो विनाशमनुभवन्तोनुभूयन्ते प्रतीतिविरोधात्।
किञ्च, अत्राल्यानपेक्षत्वमात्रं हेतुः, तत्स्वभावत्वे सत्यन्यानपेक्षत्वं वा? प्रथमपक्षे यववीजादिभिरनेकान्तो हेतोः, शाल्यङ्घरोत्पादनसामग्रीसन्निधानावस्थायां तदुत्पादनेऽन्यानपेक्षाणामप्येषां तद्भावनियमाभावात् । द्वितीयपक्षे तु विशेष्यासिद्धो हेतुः, तत्स्वभावत्वे सत्यप्यन्यानपेक्षत्वासिद्धेः। न ह्यन्त्या कारणसामग्री १० खकार्योत्पादनस्वभावापि द्वितीयक्षणानपेक्षा तदुत्पादयति, दहनखभावो वा वह्निः करतलादिसंयोगानपेक्षो दाहं विदधाति । भागे विशेषणासिद्धं च तत्स्वभावत्वे सत्यन्यानपेक्षत्वम् ; शृङ्गोत्थशरादीनां क्षणिकखभावाभावात् ।
किञ्च, यदि नामाऽहेतुको विनाशस्तथापि यदैव मुद्रादिव्या-१५ पारानन्तरमुपलभ्यते तदैवासावभ्युपगमनीयो नोदयानन्तरम् , कस्यचित्तदा तदुपलस्माभावात् । न च मुद्गरादिव्यापारानन्तरमस्योपलम्भात्प्रागपि संद्धावः कल्पनीयः प्रथमक्षणे तस्यानुपलम्भान्मुद्गरादिव्यापारानन्तरमप्यभावानुषङ्गात् । न चौन्ते क्षयोपलम्भादादावप्यसावभ्युपगन्तव्यः; सेंन्तानेनानेकान्तात्। २०
किञ्च, उदयानन्तरध्वंसित्वं भावानाम् भिन्नाभिन्नविकल्पाभ्यामन्येन ध्वंसस्यासम्भवादवसीयते,प्रमाणान्तराद्वा? तत्रोत्तरविकल्पोऽयुक्तः, प्रत्यक्षादेरुदयानन्तरध्वंसित्वेनार्थग्राहकत्वाप्रतीते। प्रथमविकल्पे तु भिन्नाभिन्न विकल्पाभ्यां मुद्राद्यनपेक्षत्वमेवास्य
१ 'भावा धर्मिणः, विनाशस्वभावनियता इति साध्यधर्मः, विनाशं प्रत्यन्यानपेक्षत्वादिति हेतुः' इत्युपरितः। २ साध्याभावे प्रवर्त्तमानत्वात् । ३ विनाशहेतुः । ४ बौद्धमतेऽपि एकस्मिन्क्षणे कारणं कार्य न करोति यतः। ५ सर्वे भावा विनाशखभावनियता इति पक्षस्यैकदेशे भागासिद्धो हेतुरित्यर्थः। ६ महिषमृगादिशृङ्गेऽन्यनिरपेक्षतयोत्थशरीरादीनाम् । ७ एकस्मिन्क्षणे पदार्थ उत्पन्नः द्वितीयक्षणे मुद्रादिव्यापारमन्तरेण विनश्यतीति नाभ्युपगमनीयं त्वया सौगतेन। ८ तस्य विनाशस्य । ९ मुद्रादिव्यापारानन्तरं विनाशोस्ति मुद्गरादिव्यापारात्पूर्व ( उत्पत्तिक्षणाद् द्वितीयक्षणे ) मपि विनाशोस्तीत्युक्त आह। १० विनाशस्य । ११ मुद्रादिव्यापारापूर्वक्षणे । १२ मुद्गरादिव्यापारस्यान्ते । १३ मुद्गरादिव्यापारात्पूर्वम् । १४ निर्वाणस्यान्ते उत्तरक्षणोत्पत्तेः क्षयोस्ति, नादौ । १५ यद्यदन्ते क्षयि तत्तदादौ क्षयीति । १६ मुद्गरादिना । १७ स्थितिपक्षे उत्पादपक्षे चाग्रे यदुक्तमस्ति तत्सर्वमत्र द्रष्टव्यम् ।
प्र०क० मा०४२