SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० स्यात् न तूंदयानन्तरं भावः । न खलु निर्हेतुकस्याश्व विषाणादेः पदार्थोदयानन्तरमेव भावितोपलब्धा । अथाहेतुकत्वेन ध्वंसस्य सदा सम्भवात्कालाधनपेक्षातः पदा थोदयानन्तरमेव भावः, नन्वेवमहेतुकत्वेन सर्वदा भावात्प्रथमः ५क्षणे एवास्य भावानुषङ्गो नोदयानन्तरमेव । न ह्यनपेक्षत्वाद हेतुकः क्वचित्कदाचिच्च भवति, तथाभावस्य सापेक्षत्वेनाहेतुकत्व. विरोधिना सहेतुकत्वेन व्याप्तत्वात् , तथा सौगतैरप्यभ्युपगमात् । ननु प्रथमक्षणे एव तेषां ध्वंसे सत्त्वस्यैवासम्भवात्कुतस्तत्प्रच्युतिलक्षणो ध्वंसः स्यात् ? ततः स्वहेतोरेवार्था ध्वंसस्वभावाः १० प्रादुर्भवन्ति; इत्यप्यविचारितरमणीयम् ; यतो यदि भावहेतोरेव तत्प्रच्युतिः; तदा किमेकक्षणस्थायिभावहेतोस्तत्प्रच्युतिः, कालान्तरस्थायिभावहेतोर्वा ? प्रथमपक्षोऽयुक्तः, एव(क)क्षणस्थायिभावहेतुत्वस्याऽद्याप्यसिद्धेः तत्कृतत्वं तत्प्रच्युतेरसिद्धमेव । द्वितीयपक्षे तु क्षणिकताऽभावानुषङ्गः। १५ किञ्च, भावहेतोरेवं तत्प्रच्युतिहेतुत्वे किमसौ भावजनना प्राक्तत्प्रच्युति जनयति, उत्तरकालम् , समकालं वा? प्रथमपक्षे प्रागभावः प्रच्युतिः स्यान्न प्रध्वंसाभावः। द्वितीयपक्षे तु भावो. त्पत्तिवेलायां तत्प्रच्युतेरुत्पत्त्यभावान्न भावहेतुस्तद्धेतुः । तथा चोत्तरोत्तरकालभाविभावपरिणतिमपेक्ष्योत्पद्यमाना तत्प्रच्युतिः २० कथं भावोदयानन्तरं भाविनी स्यात् ? तृतीयपक्षेपि भावोदयसमसमयभाविन्या तत्प्रच्युत्या सह भावस्यावस्थानाविरोधान कदाचिद्भावेन नष्टव्यम् । कथं चासौ मुद्रादिव्यापारानन्तरमेवो. पलभ्यमाना तद्भावे चानुपलभ्यमाना तजन्या न स्यात् ? अन्यत्रापि हेतुफलभावस्यान्वयव्यतिरेकानुविधानलक्षणत्वात् । २५ न च मुद्रादीनां कपालसन्तत्युत्पादे एंव व्यापार इत्यभिधातव्यम्; घटादेः खरूपेणाविकृतस्यावस्थाने पूर्ववदुपलब्ध्यादिप्रेसङ्गात् । न चास्य तदा स्वयमेवाभावान्नोपलब्ध्यादिप्रसङ्गः, १ अर्थस्य । २ नाशस्य । निर्हेतुकत्वात् । ३ अश्वलक्षण । ४ कालाधनपेक्षत्वाविशेषात्। ५ किंतु सर्वदैव भवतीत्यर्थः। ६ वञ्चित्कदाचिद्भवतः पदार्थस्य । ७ कालादिना। ८ अनुत्पन्नत्वात्। ९ अर्थोत्पत्तिकारणात् । १० मृच्चक्रादेः। ११ भावस्य घटादेः। १२ घटादिभावस्य । १३ घटप्रध्वंसस्य । १४ भावोत्पत्तिवेलायां येन कारणेन भावोत्पत्तिर्जाता तसिन्नेव समये तेनैव कारणेन घटप्रध्वंसो जायते तदा उभयोः कारणमेकं स्यादिति भावः। १५ भावहेतोर्विनाशहेतुत्वाभावे च । १६ कपालोत्पत्तौ। १७ मुद्गरादिना सह। १८ न घटप्रच्युतौ । १९ आदिना जलाहरणादिग्रहणम् । २० मुद्गरादिसन्निधानकाले ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy