SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ४९२ प्रमेयकमलमार्तण्डे [४. विषयपरि० किञ्च, विपरीतार्थव्यवस्थापकं प्रमाण बाधकमुच्यते । प्रतिक्षणविनाशिपदार्थव्यवस्थापकत्वेन च प्रत्यक्षम् , अनुमान् वा प्रवत्ताज्यस्य प्रमाणत्वेन सौगतैरनभ्युपगमात् ? तत्र न तावप्रत्यक्षं तद्यवस्थापकम् । तत्र तथार्थानामप्रतिमासनात् । न हि प्रतिक्षणं त्रुट्यद्रूपतां विभ्राणास्तत्रार्थाः प्रतिभासन्ते, स्थिरस्थूलसाधारणरूपतयैव तत्र तेषां प्रतिभासनात् । न चान्याहग्भूतः प्रतिभासोऽन्यादृग्भूतार्थव्यवस्थापकोऽतिप्रसङ्गात् । न च तत्र तथा तेषां प्रतिभासेपि सदृशापरापरोत्पत्तिविप्रलम्भाद्यथानुभवं व्यवसायानुपपत्तेः स्थिरस्थूलादिरूपतया व्यव२. सायः; इत्यभिधातव्यम् ; अनुपहतेन्द्रियस्थान्याग्भूतार्थनिश्चयो. त्पत्तिकल्पनायां प्रति नियतार्थव्यवस्थित्यभावानुषङ्गात् । नीलानुभवेषि पीतादिनिश्चयोत्पत्तिकल्पनाप्रसङ्गात् । तथा च “यत्रैव जनयेदेनों तत्रैवास्य प्रमाणता" [ ] इत्यस्य विरोधः। ततो यथाविधार्थाध्यवसायी विकल्पस्तथाविधार्थस्यैवानुभवो १५ग्राहकोभ्युपगन्तव्यः । न चार्थस्य प्रतिक्षिण] विनाशित्वातंत्सामर्थ्यवलोद्भुतेनाध्यक्षेणापि तद्रूपमेवानुकरणीयमिति वाच्यम्; इतरेतराश्रयानुषङ्गात्-सिद्धे हि क्षणक्षयित्वेऽर्थानां तत्सामर्थ्याविनाभाविनोध्यक्षस्य तद्रूपानुकरणं सिद्ध्यति, तत्सिद्धौ च क्षण क्षयित्वं तेषां सिध्यतीति । २० नाप्यनुमानं तद्राहकम् ; तंत्र प्रत्यक्षाप्रवृत्तावनुमानस्थाप्रवृत्तेः। तथा हि-अध्यक्षाधिगतम विनाभावमाश्रित्य पक्षधर्मतावगमबलादनुमानमुदयमासादयति । प्रत्यक्षाविषये तु स्वर्गादाविवानुमानस्याप्रवृत्तिरेव। किञ्च, अत्र स्वभावहेतोः, कार्यहेतोर्वा व्यापारः स्यात् ? न २५ तावत्स्वभावहेतोः; क्षणिकस्वभावतया कस्यचिदर्थस्वभावस्यानिश्चयात्, क्षणिकत्वस्याध्यक्षागोचरत्वात् । अध्यक्षगोचरे एव ह्यर्थे स्वभावहेतोर्व्यवहृतिप्रवर्तनफलत्वम् , यथा विशददर्शनावभासिनि तरौ वृक्षत्वव्यवहारप्रवर्त्तनफलत्वं शिंशपायाः। १ आगमादेः। २ विनश्यद्रूपताम् । ३ पटशानं घटव्यवस्थापकं स्यात् । ४ क्षणिकोयं क्षणिकोयमिति । ५ जायते । ६ निर्विकल्पकप्रत्यक्षं कर्तृ। ७ सविकल्पकां बुद्धिम् । ८ निर्विकल्पकस्य । ९ अतिप्रसङ्गो यतः। १० तस्य विनाश्यर्धस्य । ११ तस्य प्रतिक्षणं विनाश्यर्थस्य । १२ तथा च सति तथाविधार्थस्यैवानुभवो ग्राहको भविष्यतीत्यर्थः । १३ क्षणिकेर्थे । १४ दृष्टान्तधर्मिणि। १५ विनाशिपदार्थेन सह । १६ सत्त्वादिति । १७ दृष्टम् । १८ अयं वृक्षः शिंशपात्वादिति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy