________________
सू० ४।६] क्षणभङ्गवादः
४९१ मानकालेनानित्यता क्रियते तस्याऽसत्त्वात् , सत्त्वे वा तनित्यः त्वस्याप्यपरेण करणेऽनवस्थाप्रसङ्गः । ततो यथा स्वभावतः पूर्वोत्तरकोटिविच्छिन्नः क्षणो जातः क्षणिको विधीयते कालनिरपेक्षश्च प्रतीयते तथाऽक्षणिकत्वमपि ।
ननु चाक्षणिकत्वम् अर्थानामतीतानागतकालसम्बन्धित्वेना-५ तीतानामतत्वम् ! ल य कालस्यातीतायातत्वं सिद्धम् । तद्धि किमपरातीतादिकालसम्बन्धात्, तथाभूतपदार्थ क्रियासम्बन्धाद्वा स्यात्, स्वतो वा? प्रथमपक्षेऽनवस्था ।
द्वितीयपक्षेपि पदार्थक्रियाणां कुतोऽतीतानागतत्वम् ? अपरातीतानागतपदार्थक्रियासम्वन्धाञ्चेत् ; अनवस्था। अतीतानागतकाल-१० सम्वन्धाच्चेत् ; अन्योन्याश्रयः। स्वतः कालस्यातीतानागतत्वे अर्थानामपि स्वत एवातीतानागतत्वमस्तु किमतीतानागतकालसम्बधित्वकल्पनया? इत्यप्यसमीक्षिताभिधानम् ; स्वरूपत एवातीतादिसमयस्यातीतादित्वप्रसिद्धः । अनुभूतवर्तमानत्वो हि समयोतीतः, अनुभविष्यद्वर्त्तमानत्वंश्चानागतः, तत्सम्बन्धित्वा-१५ चार्थानामतीतानागतत्वम् । न च कालवदर्थानामपि स्वरूपेणैवातीतानागतत्वं युक्तम् । न ह्येकस्य धर्मान्यत्रायासयितुं युक्तः, अन्यथा निस्वादेस्तिकतादिधर्मो गुडादेरपि स्यात् , ज्ञानधर्मो वा स्वपरप्रकाशकत्वं घटादेरपि स्यात् , तद्धर्मो वा जडता ज्ञानस्यापि स्यात्।
ननु चानुवृत्ताकारप्रत्ययोपलम्भादक्षणिकत्वधर्मार्थानां साध्यते, स च वाध्यमानत्वादसत्यः, तदप्यसम्यक् यतोऽस्य बाधको विशेषप्रतिभास एव, ल चौतुमपन्नः। तथाहि-अनुवृत्ताकारे प्रतिपक्ष, अप्रतिपने वशालौ तद्वन्धको सवेत् ? यदि प्रतिपन्ने तदा किमनुवृत्तप्रतिभासात्मको विशेषप्रतिमासः, तव्य-२५ तिरिक्तो वा? प्रथमपक्षेऽनुवृत्तप्रतिभासस्य मिथ्यात्वे विशेषप्रतिभासस्यापि तदात्मकत्वात्तत्प्रसक्तेः कथमसौ तद्बाधकः ? द्वितीयपक्षेप्यनुवृत्ताकारप्रतिभासमन्तरेण स्थासकोशादिप्रतिभासस्य तद्व्यतिरिक्तस्यासंवेदनात्तद्वाधकत्वायोगात् । अनुवृत्ताकाराप्रतिपत्तौ च विशेष प्रतिभासस्यैवासम्भवात्कथं तद्बाधकता?३०
१ सौगताभ्युपगमरीत्या । २ कालस्य । ३ कालेन। ४ कालनिरपेक्षम् । ५ अपरस्या परसात्सिद्धावन्योन्याश्रयप्रसङ्गात् । ६ कालस्यातीताऽनागतत्वे सिद्धे सति पदार्थक्रियाणामतीतानागतत्वसिद्धिस्तत्सिद्धौ च तत्सिद्धिरिति । ७ द्रव्यरूपेण पुरुषेण । ८ भण्यते । ९ समयः। १० अती तानागतकाल । ११ संयोजयितुम् । १२ बाधकत्वेनेति शेषः। १३ मिथ्यारूपः। १४ द्वितीयविकल्पोऽयम् ।