________________
प्रमेयकमलमार्त्तण्डे
४८०
[ ४. विषयपरि०:
प्रसङ्गात् । प्रत्यक्षविरोधोऽन्यत्रापि समानः- सामान्यविशेषात्म-' तयार्थस्याध्यक्षे प्रतिभासनात् ।
ननु प्रथमव्यक्तिदर्शनवेलायां सामान्यप्रत्ययस्याभावात्सदृशपरिणामलक्षणस्यापि सामान्यस्यासम्भवः, तदप्यसाम्प्रतम् ; तदा 'सद्रव्यत्वादिप्रत्ययस्योपलम्भात् । प्रथममेकां गां पश्यन्नपि हि सदादिना सायं तत्रार्थान्तरेण व्यपदिशत्येव । अननुभूतव्यक्तयन्तरस्यैकव्यक्तिदर्शने कस्मान्न समानप्रत्ययोत्पत्तिः तत्र सदृशपरिणामस्य भावादिति चेत् ? तवापि विशिष्टप्रत्ययोत्पत्तिः कस्मान्न स्याद्वैसादृश्यस्यापि भावात् ? परापेक्षत्वात्तस्याप्रसङ्गोऽन्यत्रापि समानः । समानप्रत्ययोपि हि परापेक्षस्तामन्तरेण क्वचि'त्कदाचिदप्यभावात् द्वित्वादिप्रत्ययवद्दूरत्वादिप्रत्ययवद्वा ।
१०
द्विविधो हि वस्तुधर्मः - परापेक्षः, परानपेक्षश्च, स्थौल्यादि - द्वर्णादिवच्च । अतो यथान्यापेक्षो विशेषः स्वामर्थक्रियां व्यावृत्तिज्ञानलक्षणां कुर्वन्नर्थक्रियाकारी, तथा सामान्यमप्यनुगतज्ञान१५ लक्षणामर्थक्रियां कुर्वत्कथमर्थक्रियाकारि न स्यात् ? तद्वाह्यां पुनर्वाह दोहाद्यर्थक्रियां यथा न केवलं सामान्यं कर्त्तुमुत्सहते तथा विशेषोपि, उभयात्मनो वस्तुनो गवादेस्तत्रोपयोगात्, इत्यर्थक्रियाकारित्वेपि सामान्य विशेषांकारयोरभेदात्सिद्धं वास्त वत्वम् ।
२०
ततोऽपाकृतमेतत्
"सर्वे भवाः स्वभावेन स्वैस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद्यावृत्तिभागिनः ॥ १ ॥ तस्माद्यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।
२४
१ व्यक्तिस्वरूपत्वादभिन्नत्वाविशेषात् । २ एकगवि । ३ सत्त्वादिनायं सदृश इत्यादि । ४ पुरुषस्य ! ५ विशिष्टः = विसदृशः । ६ परो = महिषादिः | ७ परापेक्षाम् । ८ समानप्रत्ययस्य । ९ यथा द्वित्वमेकत्वापेक्षं दूरत्वं चासन्नत्वापेक्षम् । १० श्वेतपीतादिवत् । ११ सदृशपरिणामलक्षणम् । १२ अनुगतज्ञानलक्षणार्थक्रिया यतः । १३ विशेषनिरपेक्षम् । १४ केवलतया । १५ सामान्यविशेषात्मनः । १६ न केवलमबाधितप्रत्ययविषयत्वेन । १७ सामान्यविशेषावेव चाकारौ तयोरमेदाद्विशेषाभावादित्यर्थः । १८ सामान्यविशेषाकारौ सिद्धौ यतः । १९ प्रतिक्षणं ध्वंसिनः परस्परमसंसृष्टाः परमाणुरूपा गवादिस्वलक्षणाः । २० वर्त्तन्ते इति शेषः । २१ स्वेषां भावानां स्वरूपेण व्यवस्थितेः । २२ सजातीयविजातीय परमाणुरूपार्थतः । २३ विजातीयादर्थात् । २४ स्वलक्षणानाम् । २५ व्यावृत्तिनिबन्धनं येषां ते ।