________________
सू० ४५] सामान्यस्वरूपविचारः ४८१ जातिभेदाः ग्रंकल्प्यन्ते तद्विशेषावगाहिनः ॥ २॥"
[प्रमाणवा० ११४१-४२ ] इति । ननु सादृश्ये सामान्ये 'स एवायं गौः' इति प्रत्ययः कथं शवलं दृष्ट्वा धवलं पश्यतो घटेतेति चेत् ? 'एकत्वोपचारात्' इति ब्रूमः। द्विविधं होकत्वम्-मुख्यम् , उपचरितं च । मुख्यमात्मादिद्रव्ये ।। सादृश्ये तूपचारितम् । नित्यसर्व गतस्वभावत्व सामान्यस्यानेकदोषदुष्टत्वप्रतिपादनात् । _ 'तेन समानोयम् इति प्रत्ययश्च कथं स्यात् ? तयोरेकसामान्ययोगाचेत् ; न; "सामान्यवन्तावेतौ' इति प्रत्ययप्रसङ्गात् । तयोरभेदोपचारे तु 'सोमान्यम्' इति प्रत्ययः स्यात्, न पुनः तेन २० समानोयम्' इति। यष्टिपुरुषयोरभेदोपचाराद्यष्टिसहचरितः पुरुषो यष्टिः' इति यथा।
ननु 'व्यक्तिवत्समॉनपरिणामेष्वपि लमानप्रत्ययस्यापरसमानपरिणामहेतुकत्वप्रसङ्गादनवस्था स्यात् । तमन्तरेणाप्यत्र समानप्रत्ययोत्पत्तौ पर्याप्तं खण्डादिव्यक्तौ समानपरिणामकल्पनया' १५ इत्यन्यत्रापि समानम्-विसदृशपरिणामप्वपि हि विसहशप्रत्ययो यदि तदन्तरहेकोऽनवस्था । स्वभावतश्चेत्, सर्वत्र विसदृशपरिणामकल्पनानर्थक्यम् ।
न च सदृशपरिणामानामर्थवत्स्वात्मन्यपि समानप्रत्ययहेतुत्वे अर्थानामपि तत्प्रसङ्गः, प्रतिनियतशक्तित्वाद्भावानाम्, अन्यथा घटादेः प्रदीपात्स्वरूपप्रकाशोपलम्भात्प्रदीपेपि तत्प्रकाशः प्रदीपान्तरादेव स्यात् । स्वकारणकलापादुत्पन्नाः सर्वेऽर्था विसदृशप्रत्ययविषयाः स्वभावत एवेत्य युगमले समानप्रत्ययविषयास्ते तथा किं नाभ्युपगम्यन्ते अलं प्रतीत्यपलापेन ?
१ सामान्यभेदाः। २ वासनातः। ३ ते खण्डादिकर्कादयश्च विशेषाश्च तानवगाहन्ते इत्येवंशीलाः। ४ विशेषा एव सन्ति न सामान्य मिति भावः । ५ जैनेनाङ्गीक्रियमाणे सादृश्ये सामान्ये सति। ६ स एवायमात्मादिः पदार्थ इति । ७ सालादिमत्त्वेन । ८ भवतां मीमांसकानाम् । ९ खण्डमुण्डयोः शबलधवलयोर्वा । १० सामान्यतद्वतोः । ११ परेणाङ्गीक्रियमाणे। १२ इदं (व्यक्तिः ) सामान्यमिति । १३ कुन्ताः प्रविशन्ति अश्वा आगच्छन्तीत्यादिवद्वा। १४ व्यक्तिर्यथा सादृश्यपरिणामात्तेन मुण्डेन सदृशः खण्ड इत्यादि । १५ समान इति परिणामेषु । १६ विसदृशपरिणामपक्षेपि । १७ अपरविसदृश। १८ तहीति शेषः । १९ विशेषरूपाणाम्। २० स्वात्मनि समानप्रत्ययहेतुत्वप्रसङ्गः । २१ प्रतिनियतशकित्वाभावात् । २२ सौगतेन ।
प्र. क. मा० ४१