SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ सू० ४।५] सामान्यस्वरूपविचारः ४७९ विशेषाभावात् । तथाहि-तत्पूर्व द्रव्यसमवायधैर्मः स्याद्वा, नवा? सत्त्वे सत्त्ववत्पूर्वमेव व्यक्तिः, ताव्यपदेशश्च स्यात् । अथ न; तदा पश्चादपि द्रव्यसमवार्यधर्मत्वं न स्यादेकरूपत्वात्तस्य । तन्न पश्चाध्यक्तिस्तस्य। अस्तु बा; तथाप्यलौ द्रव्येण, क्रियया, उभाभ्यां वाभिधीयते १५ न ताकद्रव्येण अस्य प्रागपि विद्यमानत्वात् । नापि क्रियया; तस्या अनाधेयातिशयेऽकिञ्चित्करत्वात् । नाप्युभाभ्याम् ; पृथगऽ. सामर्थ्य सहितयोरप्यसामर्थ्यात् । तन्नानुगतःप्रत्ययोऽनुगास्येक सामान्यमालम्वते । किञ्च, गोत्वं वर्तते' इत्यभ्युपेतं भवता, तत्र किं गोवे गोत्वं १० वर्तते, किं वा गोषु गोत्वमेव, गोषु गोत्वं वर्तते एवेति वा? प्रथमपक्षेऽनन्वयित्वाविशेषाद्यावत्तेपु गोत्वं वर्त्तते तावदन्यत्रापि किन्न वर्तेत ? द्वितीये पक्षे तु सत्त्वद्रव्यत्वादीनां व्यवच्छेदाद्यक्तेरप्यभावप्रसङ्गस्तद्रूपत्वात्तस्याः। अथ 'गोषु गोत्वं वर्त्तते एवेति पक्षः; 'तत्र चाँन्यत्र गोत्वं वर्तत ऐव' इति गोव्यक्तिवत्कर्कादावपि १५ 'गौौंः' इति ज्ञानं स्यात्तदृत्तेरविशेषात् । तन्न व्यक्त्यात्मकात् प्रतिव्यक्तिविभिन्नासहशपरिणामात् अन्यद् व्यक्तिभ्यो भिन्नमेकं सामान्यं घटते। विभिन्नं हि प्रतिव्यक्ति सदृशपरिणामलक्षणं सामान्यं विसदृशपरिणामलक्षणविशेषवत् । यथैव हि काचिद्यक्तिरुपलभ्यमाना २० व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सहशपरिणामदर्शनात्किञ्चित्केनचित्समानमपि तेनायं समानः सोऽनेन सामानः' इति प्रतीतेः। न चा व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातोऽस्य; रूपादेरप्यत एव रूपादिस्वभावताव्याघात १ भेदाभावान्नित्यत्वस्यैकस्वभावत्वात् । २ देवदत्तलक्षण । ३ धर्मः स्वभावः । ४ देवदत्तस्य । ५ पाचकत्वस्य । ६ पाचकः पाचक इति । ७ द्रव्योत्पत्तिकालेपि । ८ पचाकत्वस्य । ९ पश्चाद्वयक्तिः (प्रकटनम् )। १० द्रव्यक्रियाभ्याम् । ११ देवदत्तादिना । १२ पचनलक्षणया । १३ पाचकत्वसामान्ये । १४ न च जैनानामिदं दूषणं तेषां शक्तरङ्गीकारात्, परेषां शक्तरङ्गीकारो नास्ति यतः। १५ नैयायिकेन । २६ नान्यत्रेत्यर्थः। १७ न सत्त्वद्रव्यत्वादिकं गोषु वर्तते। इत्यन्ययावृत्तिः (१) । १८ अन्यत्रापि गोत्वं वर्तते इत्यर्थः । १९ गोषु गोत्वसम्बन्धाभावाविशेषात् । २० समवायादीनां प्रागेव प्रतिक्षिप्तत्वात् । २१ अनन्वयो-विभिन्नत्वमसम्बद्धत्वं वा। २२ अश्वादिषु । २३ कर्कादिषु । २४ एवकारयोगेनान्ययोगायोगाऽत्यन्ताऽयोगव्यवच्छेदादिति सिद्धम् । २५ भनेकम् । २६ व्यच्यात्मकादिति विशेषणं समर्थयति ।"
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy