SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ४७८ प्रमेयकमलमार्तण्डे [४. विषयपरि० क्रियाविरहात् । पचन्नेव हि तथा व्यपादिश्येत नान्यदा । तन्न कर्मतस्य प्रत्ययसा निवन्धनम् । नापि कर्म सामान्यम् । तद्धि कर्माश्रितम् , कर्माश्रयाश्रितं वा? यदि कर्माश्रितम् ; कथमन्यत्र ज्ञानं जनयेत् ? न हन्यत्र वृत्ति५मदन्यत्र ज्ञानकारणमतिप्रसङ्गात्। किञ्च, कर्मसामान्यात् 'पाकः पाकः' इति प्रत्ययः स्यान पुनः 'पाचकः पाचकः' इति । अथ कर्माश्रयाश्रितम् ; तन्न, कर्माश्रित त्वात् । परम्परया कर्माश्रयाश्रितं तत् ; इत्यसारम् ; अपर्चतः कर्मविवेकात् । विविक्ते च कर्मणि न कर्मत्वं कर्मणि तदाश्रये वाss. १०श्रितम् , अनाश्रितं च कथं तत्तत्र तथाज्ञानहेतुः स्यात् ? । अथाऽपचतोऽतीतानागते कर्मणी तथाव्यपदेशज्ञाननिबन्धनं न कर्मत्वम्ननु सती, असती वा ते तन्निबन्धनं स्याताम् । न तावत्सती; अतीतस्य प्रच्युतत्वादनागतस्य चालब्धात्मस्वरूपत्वात् । असती च कथं कस्यापि निवन्धनमतिप्रसङ्गात् ? तन्न १५ कर्मत्वमपि तत्प्रत्ययस्य निबन्धनम् । नापि व्यक्तिः, अनिष्टेर्विभिन्नत्वाच्च । नापि शक्तिः, सा हि पाचकादन्या, अनन्या वा स्यात् ? अनन्यत्वे तयोरन्यतरदेव स्यात् । अन्यत्वे च अस्या एव कार्योपयोगि. । त्वेन कर्तुरकर्तुत्वानुपङ्गः । अथ पारम्पर्येणोपयोगः-कर्त्ता हि २०शक्तावुपयुज्यते शक्तिश्च कार्य। नन्वसौ शक्तावुपयुज्यते स्वरूपेण, शक्यन्तरेण वा? शत्यन्तरेणोपयोगेऽवस्था । स्वरूपेणोपयोग कार्येप्यसौ तथा किन्नोपयुज्यते किं परम्परापरिश्रमेण ? ने चान्यन्निमित्तमस्ति। पाचकत्वमस्तीति चेत्, तत्किं ट्रैव्योत्पत्तिकाले व्यक्तम् , २५अव्यक्तं वा? व्यक्तं चेत्, तर्हि पाकक्रियायाः प्रागेव तथा ज्ञानाभिधाने स्याताम् । अथाऽव्यक्तम्, तहि पश्चादपि न ते स्यातां १ पाचक इति । २ कर्मवरपुरुषाश्रितम् । ३ कर्माश्रये देवदत्ते। ४ कर्मणि । ५ देवदत्ते। ६ गृहे वृत्तिमान्प्रदीपो गुहायां शानकारणं स्यादित्यतिप्रसङ्गः। ७ कर्मत्वं कर्माश्रितं कर्म च देवदत्ताश्रितमिति । ८ पुरुषस्य । ९ नष्टे। १० सामान्यम् । ११ देवदत्ते। १२ पाचक इति । १३ पाचकः पाचक इति । १४ अनुगतप्रत्ययस्य । १५ परेणानभ्युपगमात् । १६ अनेकत्वात् । १७ पचनलक्षणं कार्यम् । १८ कर्मादिभ्योऽन्यनिमित्तं भविष्यतीत्याह। १९ पाचकः पाचक इति शानव्यपदेशयोरनुगतप्रत्ययहेतुः। २० देवदत्तलक्षण। २१ पाचक इति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy