SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० समानाकारानुभवात् , एकप्रत्यवमर्शहेतुत्वेनाभिमतानां निर्विकल्पकबुद्धीनामप्रसिद्धेश्च । अतोऽयुक्तमेतत्-- "एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी।। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥" - [प्रमाणवा० १२११०] इति । ततोऽबाधबोधाधिरूढत्वात्सिद्धं सदृशपरिणामरूपं वस्तुभूतं सामान्यम् । तस्याऽनेभ्युपगमे "नो चेद्धान्तिनिमित्तेन संयोज्येत गुंणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥" [प्रमाणवा० १४५] इत्यस्य, "अर्थन घटयत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयो(या)ऽधिगतेः प्रमाणं मेयरूपंता॥" [प्रमाणवा० ३।३०५] इत्यस्य च विरोधानुषङ्गः। १५ तच्चाऽनित्यासर्वगतखभावमभ्युपगन्तव्यम्; नित्यसर्वगतस्वभावत्वेऽर्थक्रियाकारित्वायोगात् । न खलु गोत्वं वाहदोहादा. वुपयुज्यते, तत्र व्यक्तीनामेव व्यापाराभ्युपगमात् । स्वविषयज्ञानजनकत्वेपि व्यापारोस्य केवलस्य, व्यक्तिसहितस्य वा? केवलस्य चेत् ; व्यक्त्यन्तरालेप्युपलम्भप्रसङ्गः। व्यक्तिसहि. २० तस्य चेत्, किं प्रतिपन्नाखिलव्यक्तिसहितस्य, अप्रतिपन्नाखिलव्यक्तिसहितस्य वा? तत्राद्यपक्षोऽयुक्तः, असर्वविदोऽखिलव्यक्तिप्रतिपत्तेरसम्भवात् । द्वितीयपक्षे पुनः एकव्यक्तेरप्यग्रहणे १ सौगतेन। २ उपचरितोपचारोपि श्रद्धामात्रगम्यो यतः। ३ निर्विकल्पिका बुद्धिः। ४ एका। ५ परेण । ६ चेत्पक्षान्तरसूचकम् । इति हेतोः स्वलक्षणे भ्रान्तिनिमित्तेनाक्षणिकत्वं नो संयोज्येत चेत्तर्हि स्वलक्षणस्य परमार्थभूतमक्षणिकत्वं स्यात् स्खलक्षणस्य क्षणिकत्वसिध्यर्थ सर्व क्षणिक सत्त्वादित्यनुमानं च व्यर्थ स्यादिति भावः। ७ परमार्थभूतसदृशापरापरोत्पत्तिलक्षणेन । ८ पुरुषेण । ९ क्षणिके स्वलक्षणे वस्तुनि। १० अक्षणिकत्वलक्षणम् । ११ वायथार्थकः। १२ अपरमार्थभूतः। १३ परमार्थभूतरूपसादृश्यदर्शनात् । १४ ग्रन्थस्य । १५ विषयविषयिभावं न कारयतीत्यर्थः। १६ निर्विकल्पकबुद्धिम् । १७ अन्यत्संन्निकर्षादि कर्तु। १८ पदार्थसादृश्याकारधारित्वम् । १९ उभाभ्यां श्लोकाभ्यां परस्य सादृश्याङ्गीकारो विद्यत इति सूचितम् । २० सामान्यस्य। २१ व्यक्तिरहितं केवलम् । २२ पुरुषं प्रति । २३ सामान्यस्य । न च तथा।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy