________________
सू० ४.५]
अतव्यावृत्तिरूपसामान्यनिरासः
हेतुः अत्यन्तभेदेपोन्द्रियादिवत् समुदितेतरगुडूच्यादिवच्चेत्यभिधातव्यम्; सर्वथा समानपरिणामानाधारे वस्तुन्यतत्कार्यकारणव्यावृत्तेरेवासम्भवात् । अनुगतप्रत्ययावस्तुनि प्रवृत्त्यऽभावप्रसङ्गाच्च । गुडूच्यादिदृष्टान्तोपि साध्यविकलः, न खलु ज्वरोपशमनशक्तिसमानपरिणामाभावे 'गुडूच्यादयो ज्वरोपश-५. मनहेतवः न पुनर्दधिंत्रासादयोपि' इति शक्यव्यवस्थम् , 'चक्षुरादयो वा रूपज्ञानहेतवस्तजननशक्तिलमानपरिणामविरहिणोपि न गुना रसादयोपि' इति निर्निवन्धना व्यवस्थितिः।
किञ्च, अनुगतप्रत्ययस्य सामान्यमन्तरेणैव देशादिनियमेनोत्पत्तौ व्यावृत्तप्रत्ययस्यापि विशेषमन्तरेणैवोत्पत्तिः स्यात् । शक्य १० हि वक्तुम्-अभेदाविशेपेप्येकमेव ब्रह्मादिरूपं प्रतिनियतानेकनीलाद्याभासनिवन्धेनं भविष्यतीति किमपररूपादिखलक्षणपरिकल्पनया । ततो रूपादिप्रतिभासस्येवानुगतप्रतिभासस्याप्यालम्वनं वस्तुभूतं परिकल्पनीयम् इत्यस्ति वस्तुभूतं सामान्यम् ।
एककार्यतासादृश्येनैकत्वाध्यवसायो व्यक्तीनाम् ; इत्यप्यचारु; १५ कार्याणामभेदासिद्धेः, वाहदोहादिकार्यस्य प्रतिव्यक्ति भेदात्। तत्राप्यपरैककार्यतासादृश्येनैकत्वाध्यवसायेऽनवस्था। ज्ञानलक्षणमपि कार्य प्रतिव्यक्ति भिन्नमेव ।
अनुभवानामेपरामर्शप्रत्ययहेतुत्वादेकत्वम् , तद्धेतुत्वाच्च व्यक्तीनामित्युपचरितोपचारोपि श्रद्धामात्रगम्यः; अनुभवानामप्य-२० त्यन्तवैलक्षण्येनैकपरामर्शप्रत्ययहेतुत्वायोगात्, अन्यथा कर्कादिव्यत्यनुभवेभ्योपि खण्डमुण्डादिव्यक्तौ एकपरामर्शप्रत्ययस्यो. त्पत्तिः स्यात् । अथ प्रत्यासत्तिविशेषात्खण्डमुण्डाद्यनुभवेभ्य एवास्योत्पत्तिर्नान्यतः । ननु प्रत्यासत्तिविशेषः कोन्योऽन्यत्र
१ खण्डादयो विशेषा धर्मिणः समानपरिणामरहिता एव एकप्रत्यवमीयेकार्थसाधनहेतवः अतत्कार्यकारणकर्कादिव्यावृत्तित्वादिन्द्रियादिवत् । २ व्यक्तीनाम् । ३ आदिना-अर्थालोकयोग्यतादिग्रहणम् । ४ समुदितेतरगुडूच्यादयो विशेषाः समानपरिणामाहिता एव एकप्रत्यवमर्शाधेकार्थहेतवोऽतत्कार्यकारणाविवक्षितेन्द्रियादिव्यावृत्तित्वाद्यथा । ५ शुण्ठ्यादि । ६ खण्डादिव्यक्तौ । ७ अभावरूपाया व्यावृत्तेतित्वादनुगतप्रत्ययस्य । ८ तथा हि। ९ कर्कटी। १० निर्विकल्पस्य । ११ बाह्यनीलादिस्वलक्षणम् । १२ बाह्यनीलादिविशेषमन्तरेणैव । १३ सौगतेन त्वया । १४ व्यक्तीनामेककार्यत्वसमर्थनार्थम् । १५ निर्विकल्पकप्रत्यक्षशानानाम्। १६ गौगौरिति । १७ एकत्वम् । १८ विकल्पगतमेकत्वमनुभवेऽनुभवगतं चकत्वं व्यक्तिष्विति । १९ निर्विकल्पकेभ्यः।
प्र० क० मा० ४०