SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ४६८ प्रमेयकमलमार्तण्डे [४. विषयपरि० दूरादूईतासामान्यमेव च प्रतिभासते न स्थाणुपुरुषविशेषौ तत्र सन्देहात् । तत्परिहारेण प्रतिमासनमेव च सामान्यस्य ततो व्यतिरेकस्तल्लक्षणत्वाद्भेदस्य । यदप्युक्तम्-- ५ ताभ्यां तद्यतिरेकश्च किन्नाऽदूरेऽवभासनम् । दूरेऽवभासमानस्य सन्निधानेऽतिभासनम् ॥" [प्रमाणवार्त्तिकालं०] तदप्यसुन्दरम् ; विशेषेपि समानत्वात् , सोपि हि यदि सामान्यायतिरिक्त, तर्हि दूरे वस्तुनः स्वरूप सामान्य प्रतिभासमाने १०किनार्वभासते? न हीन्द्रधनुविनाले रूपे प्रतिभासमाने पीताईदरूपं दूरन्न प्रतिभासते। अथ निकटदेशसामग्री विशेषप्रतिमासस्य जनिका, दूरदेशवर्त्तिनां च प्रतिपत्तृणां सा नास्तीति न विशेष प्रतिभासा, तर्हि सामान्यप्रतिभासस्य जनिका दूरदेश सामग्री निकटदेशवर्तिनां चासौ नास्तीति न निकटे तत्प्रति१५ भासनमिति समः समाधिः । अस्ति च निकटे सामान्यस्य प्रति भासनं स्पष्टं विशेषस्य प्रतिभासवत्, यादृशं तु दूरे तस्यास्पष्टं प्रतिभासनं तादृशं न निकटे वसामय्यभावात् तद्वदेव । न चानुगतप्रतिभासो वहिःसाधारणनिमित्तनिरपेक्षो घटते; प्रतिनियतदेशकालाकारतया तस्य प्रतिभालामावग्रसङ्गात् । न २० चाऽसाधारणा व्यक्तया एक तन्निमित्तम् । तासां भेदरूपतया ऽऽविष्टत्वात् । तथापि तन्निमित्तत्वे कर्कादिव्यक्तीनामपि गौगारिति बुद्धिनिमित्तत्वानुषङ्गः। न चाऽतकार्यकारणव्यावृत्तिः एकप्रत्यवमर्शायेकार्थसाधन १ युक्त्यन्तरेण सामान्यं व्यवस्थापयति जैनः। २ ऊर्ध्वताकारसदृशसामान्यम् । ३ ऊर्वताकारसामान्यस्य । ४ विशेषः। ५ इन्द्रधनुषि विद्यमानम्। ६ दूरदेशतादि । ७ समानाकारलक्षणसामान्यपदार्थ । ८ न बहिः साधारणनिमित्तं सामान्यं तन्नि"मित्तम् । ९ व्यापकत्वात् । १० परेणाङ्गीकृते। ११ कर्क: श्वेताश्वः । १२ व्यक्तीनां तन्निमित्तत्वाविशेषात् । १३ या या व्यक्तयस्तास्ता भेदरूपाः। १४ कार्य च कारणं च कार्यकारणे तस्य खण्डादेः कार्यकारणे न विद्यते ते अकार्यकारणे यस्याऽसावत'त्कार्यकारणः कर्कादिस्तस्माब्यावृत्तिः । दृष्टान्ते समासयुक्तिं दर्शयति । दृष्टान्ते त्वेकेन्द्रियादिरूपे तच्छब्देन विवक्षितेन्द्रियादिरन्यत्र समुदितेतरगुडूच्यादिर्घायः । बहुव्रीहिसमासकरणानन्तरं कांदिवदन्या विवक्षितेन्द्रियादिरन्या विवक्षितप्रयोगश्च ग्राह्यः । तस्माब्यावृत्तिरित्यवसातव्यः । १५ कर्कादीनामुत्तरक्षणाः कारणानि, तेभ्यो व्यावृत्तिः। १६ गौगौरित्यादि । १७ आदिशब्देनैकन्यवहारादिभिः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy