SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सू० ४/५ ] सामान्यस्वरूप विचारः ४७१ सामान्यज्ञानानुषङ्गः । प्रतिपन्नकतिपयव्यक्तिसहितस्य जनकत्वे तु तस्य ताभिरुपकारः क्रियते, न वा ? प्रथमपक्षे सामान्यस्य व्यक्तिकार्यता, तदभिन्नोपकारकरणात् । ततो भिन्नस्यास्य करणे 'तस्य' इतिव्यपदेशासिद्धिः । तत्कृतोपकारेणाप्युपकारान्तरकरणेऽनवस्था । द्वितीयपक्षे तु व्यक्तिसहभाववैयर्थ्यम् सामा- ५ न्यस्य, अकिञ्चित्करस्य सहकारित्वासम्भवात् । सामान्येन सहैर्कज्ञानजनने व्यापाराद्व्यक्तीनां तत्सहकारित्वेपि There arभावेन तत्र तासां व्यापारः, अधिपतित्वेन वा ? प्राच्यकल्पनायाम् एकमनेकाकारं सामान्यविशेषज्ञानं सर्वदा स्यात्, स्वालम्बनानुरूपत्वात्सकलविज्ञानानाम् । १० द्वितीयविकल्पे तु व्यक्तीनामनधिगमेपि सामान्यज्ञानप्रसङ्गः । नैं खलु रूपज्ञाने चक्षुषोधिगतस्याधिपतित्वेन व्यापारो दृष्टः अदृष्टस्य वा, सर्वथा नित्यवस्तुनः क्रमाक्रमाभ्यामर्थक्रियाविरो 'धाच्चास्य न कस्याञ्चिदर्थक्रियायां व्यापारः । व्यापारे वा सहकारिनिरपेक्षितया सदा कार्यकारित्वानुषङ्गः, तदवस्थाभाविनः १५. कार्यजननस्वभावस्य सदा सम्भवात्, अभावे च अनित्यत्वं स्वभावभेदलक्षणत्वात्तस्य । कार्याजननस्वभावत्वे वा अस्य सर्वदा कार्याजनकत्वप्रसङ्गः । यो हि यदऽजनकस्वभावः सोन्येस हितोपि न तज्जनयति यथा शालिबीजं क्षित्याद्यविकलसामग्रीयुक्तं कोद्रवाङ्कुरम्, अजनकस्वभावं च सामान्यं कार्यस्य, इत्यवस्तुत्वापत्ति २० नित्यैकस्वभावसामान्यस्य, अर्थक्रियाकारित्वलक्षणत्वाद्वस्तुनः । १३ तथा तत्सर्व सर्वगतम्, स्वव्यक्तिसर्वगतं वा ? न तावत्सर्वसर्वगतम् व्यक्तयन्तरालेऽनुपलभ्यमानत्वाद्व्यक्तिखात्मवत् । तत्रानुपलम्भो हि तस्याऽव्यक्तत्वात्, व्यवहितत्वात्, दूरस्थित ; १ न विशेषज्ञानानुषङ्गः, न च तथा - विशेषमन्तरेण सामान्याप्रतीतेः । २ अयमुपकारः सामान्यस्येति । ३ सम्बन्धसिद्ध्यर्थम् । ४ गौगौरित्यादि । ५ सामान्यस्यैकत्वादेकं सामान्यज्ञानम् । ६ व्यक्तीनामनेकत्वादनेकाकारम् । ७ अपरिज्ञाता व्यक्तयः सामान्यज्ञानं कथं जनयन्तीत्युक्ते सत्याहाचार्यः । ८ चक्षुर्धर्मस्य । ९ सामान्यलक्षणस्य । १० स्वविषयज्ञानलक्षण | ११ तदवस्था = सहकारिरहि• तत्वम् । १२ कूटस्थनित्यसामान्यस्य । १३ सामान्यं कार्यजनकं न भवति तदजन • कत्वादित्यध्याहृत्य । १४ सहकारिकारण । १५ अर्थों घटादिः तस्य क्रिया कार्यत्वं जन्यत्वमिति यावत्, तां करोति यः पदार्थों मृत्पिण्डलक्षणः सोर्थक्रियाकारी, तस्य भावस्तत्त्वम्, तस्मात् । १६ सर्वासु स्वसम्बन्धिखण्डमुण्डादिव्यक्तिषु । १७ स्वव्यक्तौ विवक्षितैकव्यक्तौ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy