SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ प्रमेयकालमार्चण्डे३. परोक्षपरिक মুলা জামাকাজি আবস্থা অস্বীসিল্ক जैनोक्तवादलक्षणाचतिक्रमात् । साकाङ्क्षान्योन्यानपेक्षाणां तु तेषां वाल्यत्वे प्रायतिपादितदोषानुषङ्गः। तेन्द जातिः संघातवर्तिनी वाक्यम् ; इत्यपि नोत्सृष्टम् ; निपराकाङ्कान्योन्यापेक्षपदसंघातवार्त्तन्याः सहशपरिणामलक्षणायाः कश्चित्ततोऽभिन्नाया जातेाक्यत्वघटनात्, अन्यथा संघातपक्षोक्ताशेषदोषानुषङ्गः। एकोनवयवः शब्दो वाक्यम् । इत्येतत्तु मनोरथमात्रम् । तस्याप्रामाणिकत्वात् , स्फोटस्यार्थप्रतिपादकत्वेन प्रागेव प्रतिविहि१० तत्वात्। क्रमो वाक्यमित्येतत्तु संघातवाक्यपक्षान्नातिशेते इति तद्दो षेणैव तदुष्टं द्रष्टव्यम्। वुद्धिर्वाक्यमित्यत्रापि भाववाक्यम् , द्रव्यवाक्यं वा सा स्यात् ? प्रथमप्रकल्पनायां सिद्धसाध्यता, पूर्वपूर्ववर्ण ज्ञानाहितसंस्कारस्या१५ त्मनो वाक्यार्थग्रहणपरिणतस्यान्त्यवर्णश्रवणाऽनन्तरं वाक्यार्थावबोधहेतोर्बुद्ध्यात्मनो भाववाक्यस्याऽस्माभिरभीष्टत्वात् । द्रव्यवाक्यरूपतां तु बुद्धेः कश्चेतनः श्रद्दधीत प्रतीतिविरोधीत् ? एतेनीनुसंहृतिर्वाक्यम्; इत्यपि चिन्तितम् ; यथोक्तपदानुसं. हृतिरूपस्य चेतासि परिस्फुरतो भाववाक्यस्य परामर्शात्मनोऽ. २० भीष्टत्वात् । 'आद्यं पदमन्त्यमन्यद्वा पदान्तरापेक्षं वाक्यम्' इत्यपि नोक्तवाक्याद्भिद्यते, परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वप्रसिद्धः, अन्यथा पदासिद्धेरभावानुषङ्गः स्यात् । १ पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यमिति । २ वाक्यान्तरपदेभ्यः । ३ संघातो वाक्यमित्येतन्निराकरणपरेण ग्रन्थेन । ४ सर्वेषु वर्णेषु वर्णत्वलक्षणा। ५ श्रोत्रग्राह्यत्वेन ताल्वादिव्यापारजनितत्वेन वा, न सर्वथा । ६ पदेभ्यो वर्णेभ्यश्च । ७ प्रतिवर्ण वाक्यत्वप्रसङ्गरूपः। ८ निरंशः। ९ स्फोटः। १० एको वर्णः समु. त्पद्यते पश्चाद्वितीयः ततस्तृतीय इत्यादिप्रकारेण वर्णानां क्रमः। ११ वर्णानाम् । १२ पक्षे। १३ जैनैः। १४ अचेतनत्वाद्वाक्यानां चेतनत्वाद्बुद्धेश्च । १५ बुद्धि क्यमित्येतन्निराकरणपरेण ग्रन्थेन। १६ पदरूपतामापन्नानां वर्णानां परामशोनुसंहतिः। १७ प्रतिभासमानस्य । १८ देवदत्तः' इति । १९ 'गच्छति' इति । २० परस्परापेक्षादि इत्यसात् । २१ परस्परापेक्षारहितं पदं यदि वाक्यम् । २२ सर्वस्य पदस्य वाक्यत्वात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy