________________
सू० ३३१०१] वाक्यलक्षणविचारः राकाङ्क्षस्य सत्यभामादिपर्दवद्वाक्यत्वं प्रतिपादितं प्रतिपत्तव्यम् । यच्चोच्यते"ऑख्यातंशब्दः सातो जातिः संघानवतिनी। एकोऽनवयवः शब्दः कमो कुर्नुहती ॥१॥ पदमा पदं चान्त्यं पदं सापेक्षनित्यादि। धाकर प्रति मातर्विका बहुधा याबदेलान् २॥"
इति; तदप्युक्तिमात्रम् ; यस्मादाख्यातशब्दः पदान्तनिरपेक्षः, सापेक्षो वा वाक्यं स्यात् ? न तावदाद्यः पक्षः पदान्तरनिरपेक्ष स्यास्य पदत्वात् । अन्यथा आख्यातपदाभावः स्यात् । द्वितीयपक्षेपि १० कैचिन्निरपेक्षोसो, न वा? प्रथमपक्षेऽस्मन्मतप्रसङ्गः। द्वितीयपक्षस्त्वयुक्तः, पदान्तरसापेक्षस्याप्यस्य कचिन्निरपेक्षत्वाभावे प्रकृ. तार्थापरिसमाप्त्या वाक्यत्वाऽयोगार्द्धवाक्यवत् ।
संघातो वाक्यमित्यत्रापि देशकृतः, कालकृतो वा वर्णानां संघातः स्यात् ? न तावदाद्यविकल्पो युक्तः, क्रमोत्पन्नप्रध्वंसिनां१५ तेषामेकस्सिन्देशेऽवस्थित्या संघातत्वासम्भवात् । द्वितीयविकल्पे तु पदरूपतामापन्नेभ्यो वणेभ्योऽसौ भिन्नः, अभिन्नो का? न तावद्भिन्नोनशैः; तथाविधस्यास्याऽप्रतीतेः, संघातत्वविरोधाच्च वर्णान्तरवत् । अथ तेभ्योऽभिन्नोसो, किं सर्वथा, कथञ्चिद्वा ? सर्वथा चेत् कथमसौ संघातः संघौतिखरूपवत्? अन्यथा २० प्रतिवर्ण संघातप्रसङ्गः। न चैको वर्णः संघातो नामातिप्रसङ्गाद। कथञ्चिच्चेत्; जैनमतप्रसँङ्गः-परस्परापेक्षाऽनोकाङ्क्षपदरूपतापन्न
१ प्रकरणादिगम्यपदान्तरादरवाक्यान्तरपदस्य । २ पदसमुदायस्य प्रकरमादिगम्यतिष्ठतीत्यादिपदान्तरसापेक्षस्य वाक्यस्वं यथा तद्वदत्रापि विचारणीयम् । ३ वाक्यस्य लक्षणान्तरम् । ४ भवतिगच्छतीत्यादिः । ५ वाक्यम् । ६ वर्णानाम् । ७ वर्णत्वलक्षणा। ८ स्फोटः। ९ वर्णानाम् । १० अनुसंहतिः परामर्शः। ११ माख्यातशब्दस्य वाक्यत्वे । १२ वाक्यान्तरे । १३ जैन । १४ असदुक्तस्यैव वाक्यलक्षणस्ये. ग्छयाभ्युपगमात् । १५ निरपेक्षत्वात् । १६ पदान्तरे। १७ देवदत्त गामित्यादिवत् । १८ पक्षे। १९ पदानां वा। २० वाक्यम् । २१ सकृत् । २२ खपुस्तके 'नंश' इति पाठो नास्त्येव । पदेभ्यो भिन्न इत्यर्थः। २३ एकस्य वर्णस्य संघातत्वं विरुद्ध यथा। २४ वर्णः। २५ संघातः सर्वथा संघातिभ्यो वर्गेभ्योऽभिन्नोपि यदि स्यात्तहिं। २६ अस्तु इत्युक्ते सत्याह । २७ एकार्थव्यक्तेरपि जातित्वप्रसङ्गात् । २८ एकस्मिन्वणे विवर्तमाने (वर्णसमूहान्नष्टे सति ) संघातो न निवर्त्तते इति मिन्नः । वर्णेभ्यो ( पक्षे पदेभ्यः ) मेदेनानुपलभ्यमानत्वादमिन्नः (संघातः) इति । २९ वाक्यान्तरपदेभ्यः ।