________________
४५८
प्रमेयाकमलमार्तण्डे ३. परोक्षपरि० त्याज्यः क्षेपसमाधानानामुअयंत्र समानत्वात् । ततः शब्दस्फोटस्वरूपस्य विचार्यमाणस्यायोगानासौ पदार्थप्रतिपत्तिनि. बन्धनं प्रेक्षादक्षः प्रतिपत्तव्यम् । किन्तु पदं वाक्यं वा तनिवन्धनत्वेन प्रतिपत्तव्यम् । ५ किं पुनः पदं वाक्यं वा यन्निवन्धनाऽर्थप्रतिपत्तिरित्यभिधीयते ? वर्णानां परस्परापेक्षाणां निरपेक्षः समुदायः पदम् । पदानां तु तदपेक्षाणां निरपेक्षः समुदायो वाक्यमिति । नन्वेवं कथमिदं साधनवाक्यं घटते-'यत्सत्तत्सर्वे परिणामि यथा घटः,संश्च शब्दः
इति ? 'तस्मात्परिणामी' इत्याकाणोत्साकाङ्क्षस्य वाक्यत्वौनिष्टेः १० इत्यप्यचोद्यम् ; कस्यचित्प्रतिपतुस्तद्नाकाहत्वोपपत्तेः । निराका
सत्वं हि प्रतिपत्तधर्मो वाक्येष्वध्यारोप्यते, न पुनः शब्दधर्मस्तल्याचेतनत्वात् । स चेत्प्रतिपत्ता ताँवार्थ प्रत्येति, किमित्यपरमाकाङ्केत ? पक्षधर्मोपसंहारपर्यन्तसाधनवाक्यादर्थप्रतिपत्ता.
वपि निगमनवचनापेक्षायाम् निगमनान्तपञ्चावयववाक्यादप्यार्थ१५ प्रतिपत्तौ परापेक्षाप्रसङ्गान्न कचिनिराकाङ्क्षत्वसिद्धिः। तथा च वाक्याभावान वाक्यार्थप्रतिपत्तिः कस्यचित्स्यात् । ततो यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकाङ्क्षत्वं तस्य तावत्सु वाक्यत्वसिद्धिरिति प्रतिपत्तव्यम् । एतेने प्रकरणोंदिगम्यपदान्तरसापेक्षश्रूयमाणसमुदायस्य नि
१ (जैनमतापेक्षया) अवयवक्रियाभिनेयार्थव्यतिरेकेणान्यार्थस्य हस्तपादादिस्फोटलक्षणस्याप्रतिभासनलक्षण आक्षेपस्तहिं वर्णाव्यतिरेकेणान्यस्य स्फोटलक्षणार्थस्याप्रतिभासनमिति समाधानम् । नतु वर्णानामनित्यत्वेनार्थप्रतिपादकत्वायोगात्स्फोट एवार्थप्रतिपत्तिहेतुरित्यभ्युपगन्तव्यम् । तन्नः क्रियाया अप्यनित्यत्वेनाभिनेयार्थप्रतिपादकत्वा. योगाद्धस्तादिस्फोटोऽभ्युपगन्तव्यः ( मीमांसकेन) इति । २ पदादिस्फोटहस्तादिस्फोटयोः । ३ प्रश्ने सति । ४ जैनैः। ५ पदान्तरगतवर्णनिरपेक्षः। ६ परस्पर । ७ वाक्यान्तरपदात् । ८ निरपेक्षस्य पदसमुदायस्य वाक्यत्वप्रकारेण। ९ साध्यसिद्धौ। -१० जैनस्य तव । ११ सर्व परिणामि सत्त्वादिति योज्यम् । १२ आकाङ्क्षणे वाक्यत्वं कुतो न स्यादित्युक्ते सत्याह साकाहस्येति । १३ जैनस्य । १४ व्युत्पन्नस्य यस्य हि प्रतिपत्तुस्तस्मात्परिणामीत्यत्राकामाक्षयस्तदपेक्षया तद्वाक्यं भवत्युक्तवाक्यलक्षणसद्भावाद, नान्यापेक्षया । १५ चेतन । १६ शब्दोऽचेतन इति वचनात् । १७ साधनवाक्यमात्रेण । १८ साध्यार्थम् । १९ तहीति शेषः। २० वाक्ये । २१ निराकासत्वसियभावे च। २२ कचित् । २३ वाक्याभावाद्वाक्यार्थप्रतिपत्तिर्नास्ति यतः । २४ अर्थप्रतिपत्तिमिच्छतः पुरुषस्य । २५ वाक्यसिद्धिप्रकारेण । २६ आदिना सामर्थम् । २७ तिष्ठतिभवतीत्यादि ।