________________
सू० ३.१०१] स्फोटवादः
४५७ यच्च श्रवणव्यापारानन्तरमित्याधुक्तम् । तदप्यसारम् : वटादिशब्देषु परस्परव्यावृत्तकालप्रत्यासत्तिविशिष्टवर्णव्यतिरेकेण स्फोटात्मनोऽर्थप्रकाशकत्यैकल्याध्यक्षपतिपत्तिविपयत्वेनाप्रति. भासनात् । न चासिन्नप्रतिमासमात्रादभिन्नार्थव्यवस्था, अन्यथा दूरादविरलानेकतरु एकप्रतिभालाईकन्वव्यवन्या स्यात् । न ५ चार वाध्यमानत्वान्नकत्वव्यवस्थापकत्वः स्कोटप्रतिभासेपि वाध्यमानत्वस्य प्रदर्शितत्वात् । न खलु नियोऽनलो निन्यत्वादिधर्मोपेतोऽसी क्वचिदपि प्रत्ययेऽवभाहले।
कथं चैवं शब्दस्फोटवद्गन्धादिस्फोटोप्यऽर्थप्रातिरिमिनं न स्यात् ? यथैव हि शब्दः कृतसङ्केतस्य क्वचिदर्थे प्रतिपत्तिहेतुत्या ३० गन्धादिरप्यविशेषात् । एवंविधमेकं गन्धं समानाय स्पर्श च संस्पृश्य रसं चाखाद्य रूपं चालोक्य त्वयैवंविधार्थः प्रतिपत्तव्यः' इति समयग्राहिणां पुनः क्वचित्तादृशगन्धाधुपलम्भात् तयाँविधार्थनिर्णयप्रसिद्धो गन्धादिविशेषाभिव्यङ्ग्यो गन्धादिस्फोटोऽस्तु [वर्ण ]विशेषाभिव्यङ्ग्यपदादिस्फोटवत् ।
एतेन हस्तपादकरणमात्रिकाङ्गहारादिस्फोटोप्यापादितो द्रष्टव्यः । पदादिस्फोट एक, न तु स्वस्वयंवक्रियाविशेषाभिव्यङ्गयो हंसपक्ष्मादिर्हस्तस्फोटः, विकुट्टिादिलक्षणः पादस्फोटः, हस्तपादसायोगलक्षणः करणस्फोटः,करणद्वयरूपो मात्रिकास्फोटः, मात्रिकासमूहलक्षणोऽङ्गहारस्फोटो वेति मनोरथमात्रम् । तस्यापि २० खखावयवाभिव्यङ्ग्यस्य स्वाभिनेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणत्वात् । तन्निराकरणे वा शब्दस्फोटाभिनिवेशो दूरतः परि
१ परेण । २ घकारात् टकारो व्यावृत्त इत्यादेप्रकारेन, ३ पूर्वक्षो वकानोच्चारणमुत्तरक्षणे टकारोचारणनिति। ४ यद्यपि स्टादिशब्देषु परस्तरब्याइत्तकालप्रत्त्यासत्तिविशिष्टवर्णव्यतिरेकेण स्फोटः प्रत्यक्षविषयत्वेन नावभासते तथापि अभिन्नप्रतिभासोस्ति । ननु ततः स्फोटव्यवस्था भविष्यतीत्याशङ्कायामाह। ५ शब्देषु स्फोटस्य । ६ समीपं गते सति । ७ अनेकतरुप्रतीत्या। ८ स्फोटः। ९ अवगन्द्रियविषयभूते शन्दे शब्दस्यार्थप्रतिपादकत्वाभावादर्थप्रतिपत्त्यर्थ स्फोटकल्पने घ्राणेन्द्रियादिविषयेषु गन्धादिषु तदर्थ चत्वारः स्फोटाः कल्पनीयास्तेषामपि तदभावादिति भावः । १० गन्धादिस्फोटनिराकरणद्वारेण शब्दादिस्फोटं निराकुर्वन्तीति भावः। ११ अस्य शब्दस्यायमर्थ इति । १२ जातिकुसुमादीनाममयादीनामाम्रफलादीनां कामिन्यादीनां च प्रतिपत्तिहेतुः । १३ अर्थे कृतसंकेतस्य । १४ गन्धादिस्फोटस्य कथं सङ्केत इत्याशङ्कायामाह। १५ यथाविधः पूर्व श्रुतः। १६ गन्धादिस्फोटापादनपरेण ग्रन्थेन । १७ नर्तनसमये नृत्यकारस्य । १८ अवयवाः हस्तपादादयोङ्गुल्यादयश्च । १९ विकट्टितं भ्रमणम् । २० युगपद्व्यापारः समायोगः । २१ अभिनेयः अनुकरणम् ।
प्र. क. मा० ३९