________________
४५६
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० अथ स्फोटविषयसंवेदनोत्पादस्तत्संस्कारः, सोप्ययुक्तः, वर्णानामर्थप्रतिपत्तिजननवत् स्फोटप्रतिपत्तिजननेषि सामर्थ्यासम्म वात् , न्यायस्य समानत्वात्।
अथ मैतम्-पूर्ववर्णश्रवणज्ञानाहितसंस्कारस्यात्मनोऽन्त्यवर्ण५श्रवणशानानन्तरं पदादिस्फोटस्याभिव्यक्तेरयमदोषः; तद्प्यसङ्ग
तम् ; पदार्थप्रतिपत्तेरप्येवं प्रसिद्धः स्फोटपरिकल्पनार्थनक्यात् । चिदात्मव्यतिरेकेण तत्त्वान्तरस्यास्यार्थप्रकाशनसामर्थ्यासम्भवाञ्च स एव हि चिदात्मा विशिष्टशक्तिः स्फोटोऽस्तु । 'स्फुटति प्रकटी
भवत्यर्थोस्मिन्' इति स्फोटाश्चिदात्मा। पदार्थज्ञानावरणवीर्यान्त१० रायक्षयोपशमविशिष्टः पदस्फोटः। वॉकयार्थज्ञानावरणवीर्यान्त
रायक्षयोपशमविशिष्टस्तु वाक्यस्फोटः इति । भावश्रुतज्ञानपरिपतस्यात्मनस्तथाभिधानाऽविरोधात् ।
वायवः स्फोटाभिव्यञ्जकाः; इत्यप्ययुक्तम् शब्दाभिव्यक्तिवस्फोटाभिव्यक्तेस्तेभ्योऽनुपपत्तेः। तेषां च व्यजकत्वो वर्णकल्पाना१५ वैफल्यम्, स्फोटाभिव्यक्तावर्थप्रतिपत्तौ चामीषामनुपयोगीत् । स्थिते च स्फोटस्य वर्णवायूत्पादात्पूर्व सद्भावे वर्णानां वायूनां वा व्यजकत्वं परिकल्प्येत । न चास्य सद्भावः कुतश्चित्प्रमाणात्मतिपन्नः । यच्चोक्तम्
"नादेनाऽहितबीजायामन्ये(न्त्ये )न निना सह । आँवृत्ति पारिपाकायां वुद्धौ शब्दोऽवभासते ॥"
[वाक्यप० ११८५] इति; तदप्येतेनीपाकृतम् ; नित्यत्वमन्तरेणामपि चार्थप्रतिपत्तिर्यथा भवति तथा प्रतिपादितमेव ।
-
१ प्रथमपक्षः। २ पुरुषं प्रति। ३ समस्ता व्यस्ता वा वर्णाः स्फोटप्रतिपत्ति जनयन्तीत्यादिप्रकारेण । ४ मीमांसकस्य तव। ५ जनित । ६ पुरुषस्य । ७ तथा च। ८ शान । ९ कथम् ? तथा हि । १० हेतोः। ११ आत्मा। १२ भवति । १३ कथमिदानी दैविध्यमस्य स्यादित्याशङ्कायामाह । १४ वीर्य शक्तिः। १५ आत्मा। १६ तथाभिधाने विरोधो भविष्यतीत्यत्राह । १७ वर्णा मा भवन्तु किन्तु। १८ कुतः। १९ स्फोटस्थ । २० उपकाराभावात् । २१ सति । २२ पूर्ववर्णेन वायुना वा । २३ बीजः संस्कारः। २४ अन्त्यवर्णेन वायुना वा। २५ आवृत्तिः सामस्त्येनोचारणम् । ६२ पूर्णायाम् । २७ ज्ञाने। २८ स्फोटः। २९ वायुभ्यः स्फोटाभिव्यतिनिराकरणेन। ३० अनित्येभ्यो वणेभ्यः कथं स्यादर्थप्रतिपत्तिरित्युक्ते सत्याह । ३१ पूर्व वर्णविचारे।