________________
सू० ३।१०१] स्फोटवादः ।
४५५ स्थापकः, अस्यापि मूर्त्तद्रव्यवृत्तित्वात् , स्फोटस्य चाऽमूर्त्तत्वाभ्युपगमात् ।
किञ्च, असौ संस्कारः स्फोटखरूपः, तद्धर्मों वा? तत्राद्यविक ल्पोऽयुक्तः, स्फोटस्य वर्णोत्पाद्यत्वानुपङ्गात् । द्वितीय विकल्पोऽसम्भाव्यः; व्यतिरिक्ताव्यतिरिक्त विकल्पानुपपत्तेः । स्फोटात्तस्या-५ व्यतिरेके तत्करणे स्फोट एव कृतो भवेत् , तथा चास्याऽनित्यत्वानुषङ्गात् स्वाभ्युपगमविरोधः। ततस्तद्धर्मस्य व्यतिरेके सम्बन्धानुपपत्तिः तदनुपकारकत्वात्। तस्योपकाराभ्युपगमे व्यतिरिक्ताऽव्यतिरिक्तविकल्पानुषङ्गः, तत्रापि पूर्वोक्त एव दोपोऽनवस्थाकारी। न च व्यतिरिक्तधर्मसद्भावेपि स्फोटस्यानभिव्यक्तस्वरूपापरित्यागे १० पूर्ववदर्थप्रतिपत्तिहेतुत्वम् । तत्त्यागे चाऽनित्यत्वप्रसक्तिः।
किञ्च, पूर्ववर्णैः संस्कारः स्फोटस्य क्रियमाणः किमेकदेशेन क्रियते, सर्वात्मना वा ? यद्येकदेशेन; तदा तद्देशानामप्यतोर्थान्तरानान्तरपक्षयोः पूर्वोक्तदोषानुषङ्गः । सर्वात्मना तु संस्कार सर्वत्र सर्वेषां ततोऽर्थप्रतिपत्तिः स्यात्।
किञ्च, स्फोटसंस्कारः स्फोटविषयसंवेदनोत्पादनम्, आव. रणापनयनं वा? यद्यावरणापनयनम्; तदैकत्रैकदांवरणापगमे सर्वदेशावस्थितैः सर्वदा व्यापिनित्यतयोपलभ्येत, नित्यव्यापित्वाभ्यामपगतावरणस्यास्य सर्वत्र सर्वदोपलभ्यस्वभावत्वात् । अनुपलभ्यस्वभावत्वे वा न क्वचित्कदाचित्केनचिदप्युपलभ्येत । अथैक-२० देशेनौवरणापगमः क्रियते; नन्वेवमावृतानावृतत्वेन सावयवत्वमस्यानुषज्येत । अथाऽविनिर्भागत्वादेकत्रानावृतः सर्वत्रानावृतोऽभ्युपगम्यते; तर्हि तैदेवस्थोऽशेपदेशावस्थितैरुपलब्धिप्रसङ्गः । यथा च निरवयत्वादेक त्रानावृतः सर्वत्रानावृतः तथैकत्रावृतः सर्वत्राप्यावृत इति मैनागपि नोपलभ्येत ।
२५
१ स्थितस्थापकरूपकस्य । २ मीमांसकेन । ३ तथा च स्फोटनित्यत्वव्याघातः । ४ स्फोटेन सह । ५ स्फोटधर्मलक्षणसंस्कारेण स्फोटस्योपकारः क्रियते । ६ परेण। ७ स्फोटात् । ८ धर्मः संस्कारः। ९ संस्कारात्पूर्व यथाऽकृतसंस्कारस्य स्फोटस्वार्थप्रतिपत्तिहेतुत्वं नास्ति । १० घटते । ११ अन्यथा। १२ स्फोटोऽनित्यः पूर्वाकारपरित्यागात् घटाकारपरिणतमृत्पिण्डवत् । १३ स्फोटस्य । १४ प्राणिनाम् । १५ व्यापकत्वनित्यत्वात्। १६ प्रतिपत्तॄणाम् । १७ एकस्थानेक। १८ स्फोटका । १९ नरेण। २० नित्यव्यापिनः सदैकस्वभावत्वात् । २१ न सर्वात्मना। २२ प्रय निरंशत्वव्याघातः । स्फोटो न निरंश आवृताऽनावृतदेशत्वात् । २३ निरंशत्वात् । २४ मीमांसकेन । २५ पूर्ववत् । २६ नृभिः। २७ ईषत् । २८ स्फोटः ।