SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तथाभूतसंस्कारभवतिलाव्यपक्षो वान्त्यो वर्णः पदार्थप्रतिपत्तिहेतुः । वाक्यार्थ प्रतिपत्ताचप्ययमेव न्यायोऽङ्गीकर्तव्यः । वर्णावत्पत्त्यभावप्रतिपादनं च सिद्धसाधनमेव । तदेवं यथोक्तसहकारिकारणसव्यपेक्षादनलवर्णादर्थप्रतिपत्तेरन्वययंतिरेकाभ्यां ५ निश्चयात् स्फोटपरिकल्पनाऽसम्भव एव; तदभावेप्यर्थप्रतिपत्तेरक्तप्रकारेण सम्भवेऽन्यथानुपपत्तेः प्रक्षयात् । न खलु दृष्टादेव कारणात्कार्योत्पत्तावदृष्टकारणान्तरपरिकल्पना युक्तिः स(क्तिस)ङ्गता अतिप्रसङ्गीत्। न चैववादिनो वर्णेभ्यः स्फोटाभिव्यक्तिर्घटते; तथाहि-न सम१०स्तास्ते स्फोटमभिव्यञ्जयन्ति; उत्तप्रकारेण तेषां सामस्त्यासम्भ वात् । नापि प्रत्येकम् ; वर्णान्तरोच्चारणानर्थक्यप्रसङ्गात् , एकेनैव वर्णेल सर्वात्मनाऽस्याभिव्यक्तत्वात् । पदार्थान्तरप्रतिपत्तिव्यवच्छे. दार्थ तदुच्चारणमिति चेत्, न; तदुच्चारणेयि तत्प्रतिपत्तेरेवानुषझात् । यथाहि 'गौः' इति पदस्यार्थो गकारोचारणात्प्रतीयते तथौ१५कारोच्चारणात् 'औशनसः' इति पदार्थोपि, तथा च 'गौः' इति पदादेव 'गौः, औशनसः' इत्यर्थद्वयं प्रतीयेत । संशयो वा स्यात्'किमेकपदस्फोटाभिव्यक्तये गायनेकवर्णोच्चारणं पदान्तरस्फोट. व्यवच्छेदेन, किं वानेकपदस्फोटाभिव्यक्तयेऽनेकाद्यवर्णोच्चारणम्' इति। २० न च पूर्ववर्गः स्फोटत्य संस्कारेऽन्त्यो वर्णस्तस्याभिव्यञ्जकः इति न वर्णान्तरोच्चारणवैयर्थ्यम् ; अभिव्यक्तिव्यतिरिक्तसंस्कारस्वरूपानवधारणात् । न खलु तत्र तैर्वेगाख्यः संस्कारो निर्वय॑ते; तस्य मूर्तेष्वेव भावात् । नापि वासनारूपः, अचेतनत्वात् । स्फोटस्य तच्चैतन्याभ्युपगमे वा खशास्त्रविरोधः । नापि स्थित १ ततः संस्कारस्य सव्यपेक्षोऽन्त्यवर्णोऽर्थप्रतीतिजनक इति । २ परेण । ३ जैनानाम् । ४ उक्तप्रकारेण । ५ ताल्वादि । ६ अन्त्यवर्णसद्भावेऽर्थप्रतिपत्तिस्तदभावेऽर्थप्रतिपत्त्यभाव इत्येवम् । ७ स्फोटसद्भावेऽर्थप्रतिपत्तिः स्फोटाभावे च तदभाव इति स्फोटानुमापिकायाः। ८ दृष्टाग्निकारणाद्भूमो जलकार्य स्यात् । ९ समस्तेभ्यो व्यस्तभ्यो वा वर्णेभ्योऽर्थप्रतीतिर्नास्तीत्येवं वादिनः। १० गौरित्यत्र गाभिव्यक्तस्फोटप्रतिपन्नार्थागोलक्षणादन्यपदाभिव्यक्तस्फोटप्रतिपन्नार्थोऽर्थान्तरम् , प्रकृतात्पदार्थादन्यः पदार्थः पदार्थान्तरम्। ११ घटादिपदस्फोट। १२ पदार्थप्रतिपत्तिं दर्शयन्त्याचार्याः । १३ एकस्य - गकारस्य । १४ उशनसि शब्दे भव औशनसः शुक्र इत्यर्थः । १५ कृत्वा। १६ हेतोः। १७ उत्तरवर्ण । १८ कथम् ? तथा हि । १९ वर्णैः । २० पदार्थेषु । २१ वासनायाश्चेतनत्वात् । २२ मीमांसक।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy