________________
सू० ३।१०१] स्फोटवादः
४५३ ज्यस्य गकारौकारविसर्जनीयेष्वसम्भवात्, वर्णत्वस्य च प्रतिनियतार्थप्रत्यायकत्वायोगात् । न चेयं भ्रान्ता; अवाध्यमानत्वात् । न चाबाध्यमानप्रत्ययगोचरस्यापि स्पोटस्यासत्वम् : अवयविद्रव्यादेरप्यसत्त्वप्रसङ्गात् : नित्यश्चातौ स्कोटोऽभ्युपगन्तव्यः । अनित्यत्वे सङ्केतकालानुभूतस तदैव ध्वस्तत्वाकालान्तरे देशा-५ न्तरे च गोशब्दशवणाककुदादिमदाप्रतीतिने स्वाद, असङ्केतिताच्छब्दादर्थप्रतिपत्तेरसम्भवात् । सस्ट का हील्लादायतस्स गोशब्दाद्वार्थप्रतिपत्तिः स्यात् , लकेतकर गदैव चासन्येत । ___ अत्र प्रतिविधीयते । प्रतीयमानात्पूर्ववर्णध्वंसविशिष्टादन्यारी. दर्थप्रतीतेरभ्युपगमादुक्तदोपाभावः । न चाभावस्य सहकारित्न विरुद्धम् ; वृन्तफलसंयोगाभावस्य अप्रतिवद्धगुरुत्वफलप्रपातक्रियाजनने तद्दर्शनात् , दृष्टं चोत्तरसंयोगं कुर्वत्प्राक्तनसंयोगाभावविशिष्टं कर्म, परमाण्वग्निसंयोगश्च परमाणौ तद्गतपूर्वरूपैप्रध्वंसविशिष्टो रक्ततामुत्पादयन्प्रतीतः।
यद्वा, पूर्ववर्णविज्ञानामावविशिष्टः तज्ज्ञानजनितसंस्कारसव्य-१५ पेक्षो वाऽन्त्यो वर्णोऽर्थप्रतीत्युत्पादकः । ननु संस्कारस्य कथं विषयान्तरे विज्ञानजनकत्वम् इत्यप्यचोद्यम् । तद्भावनावितयार्थप्रतीतेल्पलब्धः।
पूर्ववर्णविज्ञानप्रभवसंस्कारश्च प्रणालिकयाऽन्त्यवर्णसहायता प्रतिपद्यते; तथाहि-प्रथमवर्णे तावद्विज्ञानम् , तेन च संस्कारो२० जन्यते । ततो द्वितीयवर्णविज्ञानम् , तेन च पूर्वज्ञानाहितसंस्कारसहितेन विशिष्टः संस्कारो जन्यते । एवं तृतीयादावपि योजनीयं यावदन्त्यः संस्कारोऽर्थप्रतिपत्तिजनकान्त्यवर्णसहायः।
अथवा, शब्दार्थोपलब्धिनिमित्तक्षयोपशमप्रतिनियमादविनष्ट एव पूर्ववर्णसंविदस्तत्संकारीश्चाऽन्त्यवर्णसंस्कारं विद्धति १२५
१ गवादेः । २ स्फोट एव प्रतिनियतार्थप्रत्यायको यतः। ३ अर्थः-गोलक्षणः, तस्य, ककुदादिमतोर्थस्य च । ४ (घटवाचकघटशब्दे )धकारादावपि वर्णत्वस्य सत्त्वात् । ५ श्रोत्रप्रत्यक्षशानेन । ६ प्रत्यक्षशानगोचरस्य घटादेः । ७ स्फोटस्य । ८ स्फोटात् । ९ गोरहितात्। १० तथा च । ११ श्रयमाणात् । १२ वाक्यपक्षे वर्णसाने पदं ग्राह्यम्। १३ जनैः। १४ पूर्ववर्णोच्चारणादिवैयर्थ्यलक्षण उक्तदोषः। १५ शाखादिना। १६ बसः। १७ तस्य कारणत्वस्य । १८ श्येनादेः। १९ गमनक्रिया। २० कृष्णादिरूप। २१ घटादौ । २२ पक्षेऽन्त्यपदम् । २३ पूर्ववर्णानाम् । २४ गोपिण्डे । २५ प्रवाहेण । २६ पक्षे प्रथमपदे । २७ समुत्पद्यते । २८ उभयविषयः, धारणा परनामकः । २९ भवति । ३० द्रव्यत्वस्वरूपापेक्षया । ३१ ये अविनमः।