SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ४५२ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० न चान्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णनां क्रमोत्पादे सत्यर्थप्रतिपादकः पूर्ववर्णानामन्त्यवर्ण प्रत्यनुग्राहकत्वायोगात् । तद्धि अन्त्यवर्ण प्रति जनकत्वं तेषां स्यात्, अर्थज्ञानोत्पत्तौ लहकारित्वं वा ? न तावजनकत्वम् ; वर्णाद्वर्णोत्पत्तेरभावात् , प्रति५ नियतस्थानकरणादिप्रभवत्वात्तस्य, वर्णाभावेप्याद्यवोत्पत्त्युपलम्भाच्च । नाप्यर्थज्ञानोत्पत्तौ सहकारित्वं तेषामन्त्यवर्णानुग्राहकत्वम्, अविद्यमानानां सहकारित्वस्यैवासम्भवात् । यथा चान्त्यवर्ण प्रति पूर्ववर्णाः सहकारित्वं न प्रतिपर्धन्ते तथा तज्जनितसंवेदनान्यपि, तत्प्रभवसंस्काराच । १० किञ्च, संवेदनप्रभवसंस्काराः स्वोत्पादकविज्ञानविषयस्मृति हेतदो नार्थान्तरे ज्ञानमुत्पादयितुं समर्थाः । न खलु घटज्ञानप्रभवः संस्कारः पटे स्मृति विद्धदृष्टः । न च तत्संस्कारप्रेभवस्मृतीनां तत्सहायता; तासां युगपदुत्पत्त्यभावात् । अयुगपदुत्प नानां चावस्थित्यसम्भवात् । न चाखिलसंस्कारप्रभवैका स्मृतिः १५ सम्भवति; अन्योन्यविरुद्धानेकार्थानुभवप्रभवसंस्काराणामप्येकस्मृतिजनकत्वप्रसङ्गात् । न चान्यवर्णाऽनपेक्ष एव 'गौः' इत्यत्रान्त्यो वर्णोर्थे(र्थ)प्रतिपादकः, पूर्ववर्णोच्चारणवैयर्थ्यानुषङ्गात्। घटशब्दान्त्यव्यवस्थितस्यापि ककुदादिमदर्थप्रतिपादकत्वप्रसङ्गाच्च । तन्न वर्णाः समस्ता व्यस्ता वार्थप्रतिपादकाः सम्भवन्ति । अस्ति २०च गवादिशब्देभ्योऽर्थप्रतीतिः, तदन्यथानुपपत्त्या वर्णव्यतिरिक्तोऽर्थप्रतीतिहेतुः स्फोटोऽभ्युपगन्तव्यः। श्रोत्रविज्ञाने चासौ निरवेयवोऽक्रमः प्रतिभासते, श्रवणव्यापारानन्तरमभिन्नार्थावभासिन्याः संविदोऽनुभवात् । न चासो वर्णविषया; वर्णानां परस्परव्यावृत्तरूपतयैकप्रतिभासजनकत्व२५ विरोधात् । न चेयं सामान्य विषया; वर्णत्वंव्यतिरेकेणापरसामा १ विसर्जनीयलक्षणः । २ गकारौकाराभ्याम् । ३ उत्पद्य विनष्टत्वात्पूर्ववर्णानाम् । ४ माद्यो गकारः। ५ असतां पूर्ववर्णानाम् । ६ उत्पत्त्यनन्तरं विनष्टत्वात् । ७ ( पूर्ववर्णानां) धारणारूपाः। ८ अन्त्यवर्णश्रवणकाले प्राक्तनवर्णसंवेदनसंस्कारा. मावात् । ९ पूर्ववर्णानाम् । १० पूर्णवर्णशान । ११ पूर्ववर्णलक्षण । १२ बहिरणे गवादौ। १३ पूर्ववर्णस्मृतीनाम् । १४ प्राक्तनप्राक्तनानां विनष्टत्वात् । १५ सर्वेधामेका स्मृतिर्भविष्यतीत्युक्त आह। १६ अन्यवर्णसहाया। १७ घटपटलकुटशकटादि। १८ अन्त्यवर्णापेक्षया अन्यवों-गकारौकारौ। १९ विसर्जनीयस्य । २० गोरूप। २१ मा भवन्त्वित्युक्ते आह । २२ स्फोटं विना। २३ निरंशः । २४ प्रभिन्न:-एकः। २५ अर्थः स्फोटः तेन। २६ एकार्थेनावभासिन्याः । २० ममित्ररूप। २८ एकानसूचक ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy