________________
सू० ३११०१] स्फोटवादः
४५१ स्ववचनविरोधात् । शब्देन हि खलक्षणं प्रतिपादयता निर्देश्यत्वसस्थाभ्युपगतं स्यात्, पुनश्च तदेव प्रतिषिद्धमिति। कथं चानिदेश्यशब्देनाप्यस्यानभिधाने अनिदेश्यत्वसिद्धिः? भ्रान्तिमात्राव ततस्तत्सिद्धौ न परमार्थतत्तदनिदेश्यमन्ताधारणं वा सिद्ध्येत् । प्रत्यक्षात्तथाभूतस्यास्य प्रसिद्धिः; इसपि मनोरथमात्रम् । निर्देश ५ योग्यस्य साधारणालाधारणरूपस्य वस्तुल लेन साक्षात्करणात् । ‘বিস্ক লাখ; নিহৰ মাহতাব সারি’ इत्यसाधारणतायामनि समानम्। वस्तुस्वरूपमेव सा इत्यन्यत्रापि समानम्।
किञ्च, विकल्पप्रतिभास्यऽन्यापोहगता वाच्यता वस्तुनि प्रति १० षिध्यते, वस्तुगता वा? आद्यविकल्पे सिद्धसाध्यता । न ह्यन्यापोहवाच्यतैव वस्तुवाच्यता; तत्प्रतिषेधविरोधात् । द्वितीयपक्षे तु स्ववचनविरोध इत्युक्तम् । ततः प्रामाणिकत्वमात्मनोऽभ्युपगच्छता प्रतीतिसिद्धा वाच्यतार्थस्याभ्युपगन्तव्या।
सत्यम् ; वाच्य एवार्थः। तद्वाचकस्तु पदादिस्फोट एव, न १५ पुनर्वर्णाः। ते हि किं सैमस्ताः, व्यस्ता वा तद्वाचकाः? यदि व्यस्ताः; तदैकेनैव वर्णन गवाद्यर्थप्रतिपत्तिरुत्पादितैति द्वितीयादिवर्णोच्चा. रणमनर्थकम् । अथ समुदिताः; तन्नक्रमोत्पन्नानामन्तरविनष्टत्वेन समुदायस्यैवासम्भवात् । न च युगपदुत्पन्नानां तेषां समुदायकल्पना; एकपुरुषापेक्षया युगपदुत्पत्त्यसम्भवात्, प्रतिनियेत-२० स्थानकरणप्रयत्नप्रभवत्वात्तेषाम् । न च भिन्नपुरुषप्रयुक्तगकारौकारविसर्जनीयानां समुदायेप्यर्थप्रतिपादकं प्रतिपन्नम्। प्रतिनियतवर्णक्रमप्रतिपत्त्युत्तरकालभावित्वेन शाब्दप्रतिपत्तेः प्रतिभासनात्।
१ इति । २ इदं खलक्षणमनिर्देश्यमिति अकथने। ३ खलक्षणस्य । ४ निर्विकल्पकात् । ५ शब्देन । ६ स्खलक्षणव्यतिरेकेण साधारणतापि पृथक् नो भातीति । ७ निर्देश्यतायां साधारणतायां च । ८ वस्तुस्वरूपत्वम् । ९ बुद्धि । १० शब्देन । ११ स्वलक्षणे। १२ स्खलक्षणमनिर्देश्यमित्यनेनोल्लेखेन। १३ बुद्धिप्रतिबिम्बरूपस्थान्यापोहगतस्य (वाच्यत्वस्य ) खलक्षणेऽसामिरपि प्रतिषेधाभ्युपगमात् । १४ वस्तुनि अन्यापोहवाच्यता विद्यते चेन्न तर्हि प्रतिषेधः । कथमिति विरोधः। १५ शन्देन हीत्यादि । १६ शब्देन । १७ लब्धावसरो मीमांसकोऽवतिष्ठते । १८ शब्दैः । १९ वर्णादिनाभिव्यज्यमानो नित्यो व्यापकः पदादीनामर्थः पदादिस्फोटः । २० सदेव भावयति। २१ गौरित्यत्र गकारौकारविसर्जनीयाः गकारादिना। २२ हेतोः । २३ औकारादि । २४ उत्पनः । २५ वाल्वादि । २६ क्रिया।