SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ४५० प्रमेयकमलमार्तण्डे [३. परोक्षपरि० प्रत्यक्षात्प्रतिपत्तप्रणिधानसामग्रीसापेक्षात्प्रत्यक्षार्थ प्रतिपत्तिस्तथा सङ्केतसामनीसापेक्षादेव शब्दाच्छब्दार्थप्रतिपत्तिः सकलजनप्रसिद्धा, अन्यथाऽतो वहिरप्रतिपत्त्यादिविरोधः । न चार्थेऽर्थिनोऽर्थित्वादेव प्रवृत्तेः शब्दोऽप्रवर्तकः, अध्यक्षादेरप्येवमप्रवर्त्त५कत्वप्रसङ्गात् तदर्थेप्यभिलाषादेव प्रवृत्तिप्रसिद्धः । परम्परया प्रवर्तकत्वं शब्देप्य॑स्तु विशेषाभावात् । का चेयं विवक्षा नाम-किं शब्दोच्चारणेच्छामात्रम्, 'अनेन शब्देनामुमर्थ प्रतिपादयामि' इत्यभिप्रायो वा? प्रथमपक्षे वक्तृश्रोत्रोः शास्त्रादौ प्रवृत्तिन स्यात् । न खलु कश्चिदनुन्मत्तः शब्द१० निमित्तेच्छामात्रप्रतिपत्त्यर्थ शास्त्रं वाक्यान्तरं वा प्रणेतुं श्रोतुं प्रवर्तते । दशदाडिमादिवाक्यैः सह सर्ववाक्यानामविशेषप्रसङ्गश्च, सर्वेषां स्वप्रभवेच्छामात्रानुमापकत्वाविशेषात् । अथ 'अनेन शब्देनामुमर्थ प्रतिपादयामि' इत्यभिप्रायो विवक्षा, तत्सूचकत्वेन शब्दानामनुमानत्वम् । तदप्ययुक्तम् व्यभिचारात्। १५न हि शुकशारिकोन्मत्तादयस्तथाभिप्रायेण वाक्यमुच्चारयन्ति । किञ्च, समयानपेक्षं वाक्यं तादृशमभिप्राय गमयेत् , तत्सापेक्ष वा? आद्य विकल्पे सर्वेषांमर्थप्रतिपत्तिप्रसङ्गान्न कश्चिद्भाषानभिज्ञः स्यात् । संमयापेक्षस्तु शब्दोऽर्थमेव किं न गमयति ? न ह्यय. मर्थाद्विभेति येन तत्र साक्षान्न वर्तेत । यश्चाशक्यसमयत्वादिकेर्थे २० शब्दाप्रवृत्तौ न्यायः, सोऽभिप्रायपि समान इत्यभिप्रायावगमोपि शब्दान्न स्यात् । तन्न स्वलक्षणस्याभिधानेनानिर्देश्यत्वम् । किञ्च, तच्छब्देनाऽप्रतिपाद्याऽनिर्देश्यत्वमस्योच्येत, प्रतिपाद्य वा? न तावदप्रतिपाद्य; अतिप्रसङ्गात् । प्रतिपाद्य चेत्, न; १ प्रणिधानमेव सामग्री। २ शब्दात् । ३ पुरुषस्य । ४ पुरुषस्य। ५ अथित्वादेव। ६ प्रत्यक्षमभिलाषमुत्पादयति, अभिलाषाचार्थे प्रवृत्तिरिति। ७ प्रत्यक्षस्य । ८ शब्दोप्यभिलाषमुत्पादयति, अभिलाषात्प्रवृत्तिरिति। ९ परम्परया प्रवर्तकत्वस्य । १० धीमान्। ११ शब्दस्य निमित्तं कारणं या सा, सा चासाविच्छा च सैवेच्छा एवंभूता यतः शब्दोचारः पुरुषस्य । १२ खेषां वाक्यानां प्रभव उत्पत्तियस्या इच्छायाः सा चासाविच्छा चेति । १३ विवक्षा धर्मिणी अस्यास्तीति साध्यं शब्दोच्चारणान्यथानुपपत्तेरिति । १४ अस्यैवंविधोभिप्रायोस्ति तदभिधायकशब्दोच्चारणादिति । १५ समयः संकेतः । १६ सर्वतया। १७ अविशेषतः । १८ कचिद्देशादौ । १९ सकलभाषात्मकशब्दश्रवणात् । २० द्वितीयविकल्पः । २१ अर्थानामानन्त्यात् । २२ अभिप्रायाणामानन्त्यात्। २३ शब्दश्रोतृणाम् । २४ अशक्यसमयत्वाविशेषात् । २५ सामान्यविशेषात्मकस्याधस्य । २६ शब्देन । २७ स्खलक्षणेति शम्देन । २८ घटादेरप्यनिर्देश्यत्वप्रसङ्गात् । -
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy