SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डै ३. परोक्षपरि० प्रतीतिः किसिन्द्रियजप्रतीतितुल्या, तद्विलक्षणा वा? यदि तत्तुल्या, तदा 'शब्दात्प्रत्येति विनष्टाक्षो न तु प्रत्यक्षमीक्ष इत्यनेन विरोधः। तद्विलक्षणा चेत्, न तर्हि प्रतीतिवलक्षण्यं विषयभेदसाधनम् , एकत्रापि विषये तद्भ्युपगमात् । ५ दाहशब्देन चाँत्र कोर्थोभिप्रेतः-किमग्निः, उष्णस्पर्शः, रूपविशेषः, स्फोटः, तदुःखं वा ? अस्तु यः कश्चित् , किमेभिर्विकल्पै. भंवैतां सिद्धमिति चेत् ? एतेषां मध्ये योर्थोभिप्रेतो भवतां तेनार्थनार्थवत्त्वप्रसिद्धः तस्यानर्थविषयत्वाभावः सिद्ध इति । नन्वेवं दहेनलम्बन्धाद्यथा स्फोटो दुःख्न वा तथा दाहशब्दादमि १० किन्न स्यादर्थप्रतीतेरविशेषात् ? तन्न; अन्य कार्यत्वात्तस्य, न खल दहनप्रतीतिकार्य स्फोटादि । किं तर्हि ? दहनदेहसम्बन्धविशेषकार्यम्, सुषुप्ताद्यवस्थायामप्रतीतावपि अग्नेस्तत्सम्बन्धविशेषात् स्फोटादेर्दर्शनात्, दूरस्थस्य चक्षुषा प्रतीतावप्यदर्शनात् , मन्त्रादिबलेन त्वगिन्द्रियेणापि प्रतीतावप्यदर्शनात् । तस्मादसिनेपि १५विषये सामग्रीभेदाद्विशदेतरप्रतिभासभेदोऽभ्युपगन्तव्यः । तथा चेमप्ययुक्तम्-'न चैकस्य वस्तुनो रुपद्वयमस्त्ोकस्य द्वित्वविरोधात्' इति। यदि चोभावोभिधीयते शब्दभावो नाभिधीयते इति क्रियाप्रतिषेधान्न किञ्चित्कृतं स्यात् । तथा च कथं नदीदेशद्वीपपर्वत२० वर्गापवर्गादिष्वातप्रजीतवाक्यात्प्रतिपत्तिः श्रेयःसाधनानुष्ठाने प्रवृत्तिर्वा ? अन्यथा सर्वसादपि वाक्यात्सर्वत्रार्थे प्रतिपत्तिप्रवृत्त्यादिप्रेसङ्गः। २४ २.० १ सामान्यार्थ जानाति । २ अन्धो ना। ३ क्रियाविशेषणम् । चक्षुःप्रत्यक्षेण यादृशमीक्षते न तादृशमिति भावः । ४ अर्थम् । ५ शब्दजेन्द्रियजप्रतीत्योः समानत्वात् । ६ दूरनिकटैकपादपादौ स्वलक्षणे। ७ परेण। ८ श्लोके। ९ सौगतस्य तव। १० जनानाम् । ११ पदार्थानाम् । १२ सौगतानाम् । १३ शब्दस्य। १४ तेनाथेनार्थवत्त्वसिद्धिप्रकारेण । १५ वह्निदहनसम्बन्धादर्थप्रतीतिर्विद्यते शब्दादप्यर्थप्रतीतिरिति । १६ दहनस्य । १७ स्फोटादिकस्य । १८ दूरपादपादौ । १९ दूरनिकटादि । २० परेण । अनेन कथनेन बौद्धस्य यथा स्खलक्षणस्य प्रत्यक्षेण स्पष्टतया प्रतिभासन तथा शब्देनाप्यस्पष्टतया प्रतिभासनं जातमिति । २१ सामग्रीमेदात्प्रतिभासमेदे च । २२ वैशधावेशद्यरूपम् । २३ अपोहः। २४ भावस्य । २५ तहीति शेषः । २६ शब्दैः। २७ शब्दैन किंचित् वाच्यं स्यात्। २८ शब्देन करसायकरणेभ्यर्थप्रतीतिरनुष्ठाने प्रवृत्तिश्च यदि । २९ अकृतत्वाविशेषात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy