________________
सू० ३.१०१] अपोहवादः
४३९ निराकर्तुमशक्यत्वात्, अपोह्येत सामान्यं तस्य वाच्यत्वात् । अपोहानां त्वभावरूपतयाऽपोखैत्वासम्भवात् , अभावानामभावाभावात् , वस्तुविषयत्वात्प्रतिषेधस्य । अपोह्यत्वेऽपोहानां वस्तुत्वमेव स्यात् । तस्मादश्वादी गवादेरपोहो भवन् सामान्यभूतस्यैव भवेदित्यपोहत्वाद्वस्तुत्वं सामान्यस्य । तदुक्तम्
"यदा चाऽशब्दवाच्यत्वान्न व्यक्तीनीमपोहता। तदापोह्येत सामान्यं तस्यापोहाच वस्तुता ॥ १ ॥ नाऽपोह्यत्वमभावानामभावाऽभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात्सामान्यवस्तुनः ॥२॥"
[मी० श्लो० अपोह० श्लो० ९५-९६] १० किञ्च, अपोहानां परस्परतो वैलक्षण्यं वा स्यात्, अवैलक्षण्यं वा? तत्राद्यपक्षे [अ]भावस्थागोर्शब्दाभिधेयस्याभावो गोशब्दाभिधेयः, सं चेत्पूर्वोक्तादौवाद्विलक्षणः; तदा भाव एव भवेदभावनिवृत्तिरूपत्वाद्भावस्य । न चेद्विलक्षणः; तदा गौप्यगौः प्रसेंज्येत तेदवैलेक्ष्येण (तवलक्षण्येन) तादात्म्यप्रतिपत्तेः । तन्न १५ वाच्यामिमतापोहानां भेदसिद्धिः।
नापि वाँचकाभिम॑तानाम् ; तथाहि-शब्दानां भिन्नसामान्यवाचिनां विशेषवाचिनां च परस्परतोऽपोहभेदो वासनोंभेदनिमित्तो वा स्यात्, वाच्यापोहभेदनिमित्तो वा? प्रथमपक्षोऽयुक्तः; अवस्तुनि वासनाया एवासम्भवात् । तदसम्भवश्च २०
१ अपोहितुम् । २ शब्देन । ३ भन्यव्यावृत्तीनाम् ( सर्वेषां पदार्थानामपोहरूपत्वात्सर्वे भावा अपोहाः)। ४ व्यावय॑त्व । ५ अत्र खरविषाणवदृष्टान्तः । ६ अपोहानाम् व्याव-नाम् । ७ व्यावर्त्यत्वे। ८ अङ्गीक्रियमाणे परेण। ९ अभावाभावानाम् । १० वर्तमानः । ११ हेतोः। १२ स्खलक्षणानाम् । १३ वस्तुविषयो निषेधो यतः। १४ निषेधस्य निषेधासम्भवात्। १५ अपोह्या(हा)न्तरेऽश्वादौ । १६ गोः। १७ व्यक्तीनामपोहानां चापोहता नास्ति यस्मात् । १८ एव । १९ ता। २० गोशब्दाश्वशब्दवाच्यानामन्यव्यावृत्तीनाम् । २१ विसदृशता। २२ अश्व । २३ वाच्यस्य । २४ गोशब्दाभिधेयोऽभावो यतः। २५ अगोशब्दाभिषयात् । २६ द्वितीयपक्षे दूषणमुद्भावयन्ति । २७ एकस्वरूपः। २८ भवेत् । २९ भिन्नपदार्थ । ३० तसादगोशब्दवाच्यादपोहादवैलक्षण्यं गोशब्दवाच्यस्यापोहस्य । ३१ एकत्वात् । ३२ गोशब्दाऽगोशब्दवाच्यापोहयोः । ३३ अर्ध । ३४ शब्द । ३५ अपोहानाम् । ३६ गोलक्षणाश्वलक्षण। ३७ खण्डमुण्डादि । ३८ शब्दापोहभेदः । ३९ पूर्वविकस्पशानं शब्दविषयं वासना । ४० एव । ४१ बसः। ४२ अर्थ । ४३ वाचकापोहे।