SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ४३८ प्रमेयकमलमार्तण्डे ३. परोक्षपरिक रागे वा अभावरूपेणे: वस्तुनः प्रतीतर्वस्तुत्वमेव न स्यात् , भावाभावयोर्विरोधात् । शब्देनाऽगम्यमानत्वाच्चाऽसाधारणवस्तुनोना व्यावृत्या विशिष्टत्वं प्रत्येतुं शक्यम् । उक्तञ्च " चासाधारणं वस्तु गम्यतेपोहवत्तया। कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥१॥ वरूपसत्त्वमात्रेण न स्यात्किञ्चिद्विशेषणम् । खवुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥२॥ न चाप्यश्वादिशब्देभ्यो जायतेपोहभासनम् । विशेष्ये वुद्धिरिष्टेह न चाज्ञातविशेषणा ॥३॥ न चान्यरूपमन्याह कुर्याज्ज्ञानं विशेषणम् । कथं वाऽन्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥४॥ अथान्यथा विशेष्येपि स्याद्विशेषणकल्पना । तथा सति हि यत्किञ्चित्प्रसज्येत विशेषणम् ॥५॥ अभावगम्यरूपे च न विशेष्यस्ति वस्तुता। विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः॥ ६॥" [मी० श्लो० अपोह० श्लो०८६-९१] "शब्देनागम्यमानं च विशेष्यमिति साहसम् । तेन सामान्यमेष्टव्यं विषयो वुद्धिशब्दयोः॥" [मी० श्लो० अपोह० श्लो० ९४] २० इतश्च सामान्यं वस्तुभूतं शब्दविषयः, यतो व्यक्तीनामसाधारणवस्तुरूपाणामशब्दवाच्यत्वान्न व्यक्तीनामपोह्येत, अनुक्तस्य १ अश्वादिषु शब्दजबुद्धेरभावेन सहानुरागे सति। २ यदा भावाकारो धृतस्तदाऽभावरूपमेव स्खलक्षणं निश्चिनुयादिति भावः। ३ वलक्षणस्य । ४ कुतः । ५ स्वलक्षणस्य । ६ अपोहेन । ७ अर्थान्तरव्यावृत्या विशिष्टं स्खलक्षणरूपं वस्तु शब्देनोच्यत इति वदन्तं वादिनं प्रति समर्थनमुक्तमिति ज्ञेयम् । ८ अपोहस्य । ९ कथं तर्हि विशेषणं स्यादित्युक्ते आह । १० स्वस्य विशेषणस्य । ११ प्रतीतिः। १२ जगति । १३ अभावरूपम् । १४ भावरूपम् । १५ विशेष्ये । १६ जैनानामिदं दूषणं न जायते तेषां सर्व वस्तु भावाभावात्मकं यतः । १७ भावरूपे । १८ अभावरूपे। १९ परेण । २० यदि । २१ भावरूपे । २२ अपोइस्य । २३ अनिर्वच. नीयम् । २४ स्खलक्षणरूपे । २५ विशेषणेन । २६ स्वलक्षणरूपम् । २७ शब्देन । २८ सौगतस्य । २९ अपोहस्य विशेषणस्य । ३० स्खलक्षणम् । ३१ येन कारणेनापोहशब्दयोर्वाच्यवाचकमावो नास्ति तेन। ३२ शब्दजनितबुया गम्यः शब्देन बाच्यश्च । ३३ गोत्वादि। ३४ स्वलक्षणस्यावाच्यत्वं कुतः सङ्केताभावात् । ३५ शब्देनावाच्यस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy