SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ सू० ३।१०१] अपोहवादः ४३७ नामाकमनीलादिव्यावृत्त्या विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतो यतोयं दोषः स्यात् । किं तर्हि ? अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथा व्यवस्थितम् । तच्चार्थान्तरव्यावृत्त्या विशिष्टं शब्देनोच्यते; इत्यप्यपेशलम् : स्वलक्षणस्याऽवाच्यत्वात् । न च स्वलक्षणस्य व्यावृत्त्या विशिष्टत्वं सिवति यतो न वस्त्व-५ पोहोऽसाधारणं तु वस्तु, न च वस्त्वऽवस्तुनोः सम्वन्धो युक्तः, वस्तुद्वयाधारत्वात्तस्य। अस्तु वा सम्वन्धः, तथापि विशेषणत्वमपोहस्याऽयुक्तम्, न हि सत्तामात्रेण किञ्चिद्विशेषणम् । किं तर्हि ? ज्ञातं सद्यत्वाकारानुरक्तया बुद्ध्या विशेष्यं रञ्जयति तद्विशेणम् । न चापो-१० हेऽयं प्रकारः सम्भवैति । न श्वादिबुद्ध्यापोहोऽध्यवसीयते । किं तर्हि ? वस्त्वेव । अपोहज्ञानासम्भवश्चोक्तः प्राक।न चाज्ञातोप्यपोहो विशेषणं भवति । "नागृहीतविशेषणा विशेष्ये वुद्धिः" [ ] इत्यभिधानात् ।। __ अस्तु वाऽपोहज्ञापनम् , (ज्ञानम् ;) तथापि-अथ तैदाकारवु-१५ ध्यभावात्तस्याऽविशेषणत्वम् । सर्वे हि विशेषणं स्वाकारानुरूपां विशेष्ये वुद्धिं जनयदृष्टम् , न त्वन्यादृशं विशेषणमन्यादृशीं वुद्धिं विशेष्ये जनयति । न खलु नीलमुत्पले 'रक्तम्' इति प्रत्ययमुत्पादयति, दैण्डो वा 'कुण्डली' इति । न चाश्वादिष्वभावानुरक्ता शाब्दी वुद्धिरुपजायते । किन्तर्हि ? भौवाकाराध्यवसा-२० यिनी । तथापि विशेषणत्वे सर्व सर्वस्य विशेषणं स्यात् । अनु. १ भवतामयं प्रसङ्ग इत्युक्ते सत्याह । २ जैनानान् । ३ रक्तादि । ४ विशेषणेन । ५ अपद्मादि । ६ विशेष्यः। ७ न कुतोपि । ८ नीलोत्पलरूपेण । ९ इति जैनः । १० अर्थः स्वलक्षणरूपः। ११ अनीलाऽनुत्पलरूप । १२ इति सौगतः। १३ कुतः । १४ यद्वस्तु तत्वलक्षणमेवेति शन्देन। १५ सौगतमते । १६ अन्यव्यावृत्तिरूपं तु सामान्यमेव । १७ अपोहोस्तीत्यस्तित्वमात्रेण। १८ लोके। १९ उत्पलम् । २० स्यात् । २१ अशातत्वादपोहस्य । २२ न तावत्प्रत्यक्षेणापोहग्रहणमित्यादिः । २३ स्वलक्षणरूपे । २४ स्थिरस्थूलाकारः स्वलक्षणोस्तीति ज्ञायते न त्वभावरूपापोहाकारः। २५ सती सदृशीम् । २६ अभावरूपम् । २७ भावरूपाम् । २८ कथम् । २९ पुरुषस्थः। ३० स्वलक्षणरूपेषु । ३१ अपोहासका। ३२ शम्दजनिता सविकल्पेत्यर्थः । बौद्धानां मते निर्विकल्पकज्ञानानन्तरोत्पन्नसविकल्पकशानेन खलक्षणस्य निश्चयो यतः । ३३ स्थिरस्थूलाकार पदार्थाकार । ३४ स्वाकारानुरूपबुधजनकत्वेपि । ३५ अपोहस्य । ३६ स्वाकारानुरूपबुद्ध्यजनकत्वाविशेषात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy