________________
प्रमेयकमलमार्तण्डे३. परोक्षपरि० विधातुं शक्यः । अथाऽगोनिवृत्यात्मा गौरव, नन्वेवमणोनिवृत्तिस्वभावत्वागारगोप्रतिपत्तिद्वारेणैव प्रतीतिः, अंगोश्च गोप्रतिपेधात्मकत्वादोप्रतिपत्तिद्वारेणेति स्फुटमितरेतराश्रयत्वम् ।
अथाऽगोशब्देन यो गौर्निषिध्यते स विधिलंप एवागोव्य५बच्छेदलक्षणापोहसिध्यर्थम् तेनेतरेतराश्रयत्वं न भविष्यति
यद्येवम्-'सर्वस्य शब्दस्यापोहोऽर्थः' इत्येवमपोहकल्पना वृथा विधिरूपस्यापि शब्दार्थस्य भावात्, अन्यथेतरेतराश्रयो दुर्निवारः। तदुक्तम्
"सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः। तंत्र गौरव वक्तव्यो नत्रा यः प्रतिविध्यते ॥१॥ स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः। सिद्धश्चेद्गौरपोहाथै वृथापोहप्रकल्पनम् ॥ २॥ गव्यसिद्धे त्वगौर्नास्ति तदभावेप्य(पि)गौः कुतः। नोधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभावयोः॥३॥"
[मी० श्लो० अपोह० श्लो० ८३-८५] दिग्नागेन विशेषणविशेष्यभावसमर्थनार्थम् “नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहुः"[ ] इत्युक्तम् । तदयुक्तम् । यस्य हि येनं कश्चिद्वास्तवः सम्वन्धः सिद्धस्तत्तेन विशिष्टमिति वक्तुं युक्तम्, न च नीलोत्पलयोरनीलानुत्पल२० व्यवच्छेद्रूपत्वेनाभावरूपयोराधाराधेयत्वादिः सम्वन्धः सम्भ
वति; नीरूपत्वात् । आदिग्रहणेन संयोगसमवायैकार्थसमवायादिसम्बन्धग्रहणम् । न चासति वास्तवे सम्वन्धे तद्विशिष्टस्य प्रतिपचिर्युक्ताऽतिप्रसङ्गात् ।
१ पुरुषेण । २ अश्वाद्यभावात्मा। ३ उत्तरपदार्थः । ४ भो सौगत । ५ ता। ६ उत्तरपदार्थस्य । ७ अश्वादेः। ८ ता। ९ एव । १० प्रतीतिः। ११ पूर्वोक्तप्रकारेण । १२ सालादिमात्रभावरूप इति भावः। १३ नागोनिवृत्त्यात्मा । १४ स्वरूप। १५ तहिं । १६ शातः। १७ गोशब्देन। १८ एवं सति । १९ उच्यते एव गौरित्युक्ते आह। २० विधिरूपेण । २१ अज्ञाते। २२ जैनेनोच्यते । २३ विशेष्यपदाभिधेयोऽभावो विशेष्य आधारश्च विशेषणपदाभिधेयोऽभावो विशेषणमाधेयश्चेत्यभिप्रायः परस्य (सौगतस्य ) नीलो घट इत्यादिवत् । २४ न केवलं सङ्केतः। २५ कारिकोत्तरार्ध व्याचष्टे। २६ अनील अनुत्पललक्षण। २७ अभावसहितान् । २८ कथम् । २९ विशेष्यस्य । ३० विशेषणेन। ३१ अर्थरूपयोः। ३२ एकार्थसमवायः मातुलिङ्गक्षणं रूपवद्रसादेः। ३३ आदिना तादात्म्यम् । ३४ नील । ३५ उत्पलस्य । ३६ विशेषणविशेष्यतया सह्यविन्ध्ययोरपि प्रतिपत्तिः स्यादिति ।