SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ सू० ३३१०१] अपोहवादः ४३५ यदि वाऽसत्यपि सारूप्ये शावलेयादिष्वगोपोहेकल्पना तदा गवाश्चयोरपि कस्मान्न कल्प्येताऽसौ विशेषाभावात् ? तदुक्तम् "अथाऽसत्यपि सारूप्ये स्यादपोहँस्य कल्पना। गवाश्वयोरयं कस्मादगोपोहो न कल्प्यते ॥१॥ शालेयाच भिन्नत्वं वाहुलेयाश्वयोः समम् । सामान्य नान्यदिष्टं चेत्क्वागोपोहः प्रवर्त्तताम् ॥ २॥" [मी० श्लो० अपोह० श्लो०७६-७७] यथा च खलक्षणादिषु सैमयासम्भवान्न शब्दार्थत्वं तथाऽपोहेपि । निश्चितार्थो हि समयकृत्समयं करोति । न चापोहः केन: चिदिन्द्रियैर्व्यवसीयते; तस्यावस्तुत्वादिन्द्रियाणां च वस्तुविषय-१० त्वात् । नाप्यनुमानेन; वस्तुभूतसामान्यमन्तरेणानुमानस्यैवाऽ. प्रवृत्तेः। अस्तु वा सेमयः, तथापि-कथमश्वादीनां गोशब्दानभिधेयत्वम् ? 'सैम्बन्धानुभवणेऽश्चादेस्तद्विषयत्वेनादृष्टेः' इत्यनुत्तरम् ; यतो यदि यद्गोशब्दसङ्केतकाले दृष्टं ततोऽन्यत्र गोशब्द-१५ प्रवृत्तिनेष्यते, तदैकस्मात्सङ्केतेन विषयीताच्छावलेयादिगोपिण्डात् अन्याहुलेयाँदि गोशब्देनापोह न भवेत् । __ इतरेतराश्रयश्च-अगोव्यवच्छेदेन हि गोः प्रतिपत्तिः, स चाऽगौ\निषेधात्मा, ततश्च अगौः इत्यत्रोत्तरपदार्थों वक्तव्यो यो 'न गौः' इत्यत्र नञा प्रतिषेध्येत । न ह्यनितिखरूपस्य निषेधो २० १ अश्वाद्यभाव । २ एक । ३ सारूप्यासत्त्वाविशेषात् । ४ यदि । ५ शावलेयादौ : ६ एकगोः। ७ कारणात् । ८ गवाश्चयोभिन्नत्वादेकागोपोहाश्रयत्वं नेत्युक्ते आह । ९ समानम् । १० परमार्थभूतम् । ११ भिन्नम् । १२ विशेपेषु क्षणिकनिरंशादिषु । १३ शावलेयादिषु । १४ सङ्केत । १५ घटते इति शेषः । १६ अस्य शब्दस्यायमर्थ इति। १७ ना। १८ नरेण । १९ निश्चीयते । २० स्वलक्षण । २१ अपोहे । २२ अपोहे समयसद्भावेपि । २३ स्यात् । २४ अनुमानमप्यन्यापोहं नावबोधयति । २५ गोशब्देन सास्लादिमदर्थस्य अनुमानस्य कार्यस्वभावसम्पाद्यत्वात् । अन्यापोहस्य निरुपाख्यत्वेनानर्थक्रियाकारित्वेन च स्वभावकार्ययोरसम्भवात्। २६ काले । २७ ता। २८ दर्शनाभावात् । २९ दृष्टं वर्जयित्वा । ३० अश्वे। ३१ परेण । ३२ खण्डमुण्डादिनाम्ना। ३३ गोशब्दस्यायं वाच्य इति । ३४ सौगतेन । ३५ गोपिण्डम् । ३६ अश्वादि व्यावलंम् । ३७ सङ्केतकाले सङ्केतेनाविषयीकृतत्वादाहुलेयादेः । ३८ दूषणान्तरमाह । ३९ कथम् । ४० गोशब्दार्थः। ४१ परेण त्वया। ४२ समासारम्भे वाक्ये । ४३ पदार्थस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy